________________
Shri Mahavir Jain Aradhana Kendra
www.kobaithong
Acharya Shri Kalassagarsun Gyanmandir
दूषयेयुः, विषादिनेति शेपः। परिरक्षेथा इत्यात्मनेपदमार्षम् । उद्यतः सावधान इत्यर्थः ॥ १२ ॥ शोधनान्तरमाह-निष्विति । निमेषु गर्तप्रदेशेषु । वनदुर्गेषु वनैः जलैः दुर्गेषु दुर्गमप्रदेशेषु । “जीवनं भुवनं वनम्" इत्यमरः । वनेषु काननेषु च । निहितं रन्धे प्रहारार्थ स्थापितम् । बलं परसैन्यम् । वनौकसः वानराः । अभिप्लुत्य अभित उत्प्लुत्य पश्येयुः ॥ १३ ॥ शोधनान्तरमाह-यदिति । यत्किचिलं फल्गु असारम् तत् अत्रैव किष्किन्धाया निम्नेषु वनदुर्गेषु वनेषु च वनौकसः। अभिप्लुत्याभिपश्येयुः परषां निहितं बलम् ॥ १३ ॥ यच्च फल्गु बलं किंचित् तदत्रैवोपयुज्यताम् । एतद्धि कृत्यं घोरं नो विक्रमेण प्रयुद्धयताम् ॥ १४॥ सागरौघनिभं भीममग्रानीकं महा बलाः। कपिसिंहाः प्रकर्षन्तु शतशोऽथ सहस्रशः॥ १५॥ गजश्च गिरिसङ्काशो गवयश्च महाबलः । गवाक्षश्चाग्रतो यान्तु गवां दृप्ता इवर्षभाः ॥ १६॥ यातु वानरवाहिन्या वानरः प्लवतां वरः । पालयन् दक्षिणं पार्श्वमृषभो वानरर्षभः ॥ १७॥ गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः । यातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः॥ १८॥ मेव उपयुज्यतां स्थाप्यताम् । किंचिदित्यनेन तादृशं बलमत्र दुर्लभमिति सूचितम् । अत्र युक्तिं वक्ति पतदिति । एतत् घोरं कृत्यं विक्रमेण प्रयु
यताम् । आपः शतप्रत्ययः । विकमेण शक्त्या ये युद्धयन्ते तेषामेव नान्येषामित्यर्थः । विक्रमेणोपयुज्यतामिति पाठे विक्रमेणोपयुज्यमानानाम्, विकमयुक्तानामित्यर्थः । क्रियापदत्वे संप्रधारणायां लोद वेदिनव्यः ॥ १४॥ अथ " यतश्च बलमाशङ्की ततो विस्तारयेगलम्" इत्युक्तरीत्था बहवो बलिनोऽये सेनां कर्षन्त्वित्याह-सागरेति । सागरोघनिभं सागरस्य प्रवाहो यदि भवेत्तत्तुल्यमित्यर्थः । शतशोऽथ सहस्रशः शतशस्सहस्रशश्च सङ्घीभूये। त्यर्थः ॥१५॥“अथ सेनाबलाध्यक्षो सर्वदिक्षु निवेशयेत्" इत्युक्तरीत्या निवेशयति-गज इति । गवामिति गवामये हप्ताः वृषभा इवेति संबन्धः॥१६॥ यात्विति । दक्षिण पश्चिमपार्थमित्यर्थः । “यतश्च भयमाशति तां प्राची परिकल्पयेत्" इति कामन्दकोक्तेः । प्लवतां वानराणाम् ॥ १७॥ गन्धेति, निम्नादिषु निहितं रन्धे प्रहारार्थ लीनम् ॥१३॥ फल्गु बलं निस्तारं सैन्यम् । अत्रैवोपयुज्यता किष्किन्धायामेव स्थाप्यताम् । अत्र हेतुमाह पतदिति । घोरं भयावह नः एताद्धरूपं कृत्यम् । विक्रमेण प्रयुज्यता विक्रमेण प्रयुज्यमानानाम्, विक्रमेण युक्तानामिति नान्येषामित्यर्थः । विक्रमेण प्रयुध्यतामिति पाठे विक्रमेण शक्त्या | ये युद्धचन्ते तेषामेव पताबरूप कृत्यं नाम्येषामित्यर्थः ॥ १५-१७ ॥ गन्धेति । यस्य मदगन्धादितरे हस्तिनो द्रवन्ति स गन्धहस्ती ॥ १८॥
For Private And Personal Use Only