SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir वा.रा.भू. .९॥ तर्हि कदाऽस्माभिः प्रस्थाप्यम् तबाह-उत्तरेति । अब दिने उत्तराफल्गुनीनक्षत्रं वर्तते । श्वः उत्तरदिने हस्तेन योक्ष्यते, चन्द्र इति शेषः । इस्तो रामस्य टी.यु.का. निधनतारा । उत्तराफल्गुनी तु साधनतारा ! अतोऽद्येव सर्वानीकसमावृतास्सन्तः अभिप्रयाम गच्छेम । अत्रोत्तराफल्गुनीत्यनेन स दिवस: फाल्गुन पौर्णमासीत्यवगम्यते । इदमुत्तरत्र प्रतिपादयिष्यते ॥६॥ यानि निमित्तानि धन्यानि तानि प्रादुर्भवन्ति । अतोरावणं निहत्य सीतामानयिष्यामि । जानकी मिति विशेषणेन जनकप्रीत्यर्थ चावश्यं सा अनेतव्यति यज्यते ॥ ७॥ उपरिष्टादुपरि स्फुरमाणमिदं मम नयनम् । मनोरथं मनोरथविषयभूतं जयम् । उत्तराफल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते । अभिप्रयाम सुग्रीव सर्वानीकसमावृताः ॥ ६ ॥ निमित्तानि च धन्यानि यानि प्रादुर्भवन्ति च । निहत्य रावणं सीतामानयिष्यामि जानकीम् ॥७॥ उपरिष्टाद्धि नयनं स्फुरमाण मिदं मम । विजयं समनुप्राप्तं शंसतीव मनोरथम् ॥ ८ ॥ ततो वानरराजेन लक्ष्मणेन च पूजितः । उवाच रामो धर्मात्मा पुनरप्यर्थकोविदः ॥९॥ अग्रेयातु बलस्यास्य नीलो मार्गमवेक्षितुम् । वृतः शतसहस्रेण वानराणां तरस्विनाम् ॥ १०॥ फलमूलवता नील शीतकाननवारिणा । पथा मधुमता चाशु सेना सेनापते नय ॥ ११ ॥ दूषयेयुर्दुरात्मानः पथि मूलफलोदकम् । राक्षसाः परिरक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः ॥ १२॥ समनुप्राप्तं सम्यक् समीपे प्राप्तम् । शंसतीव स्पष्ट बोधयतीत्यर्थः। तथोक्तं जोति शास्त्रे-“नेत्रस्याधः स्फुरणमसकृत्सङ्गरे भङ्गहेतुनेत्रोपान्ते हरति नयनं नेत्रमूले च मृत्युः। नेत्रस्योधै हरति सकलं मानसं दुःखजातं वामे चैवं फलमविकलं दक्षिणे वैपरीत्यम्॥” इति । एवं वचने विद्यमाने दक्षिणनयन मिति व्याख्यानं चिन्त्यम् ॥ ८॥ पूजितः युक्तमिति शाषितः । अर्थकोविदः नीतिशास्त्रनिपुणः ॥९॥ नीतिशास्त्रमनुस्मरन् सेनासंविधानं दर्शयतिअय इति । स्पष्टम् ॥ १०॥ मार्गमवेक्षितुं यात्विति सुग्रीवं प्रत्युक्तमात्रेण सन्निहितं नीलं प्रत्याह-फलेति ॥११॥ मार्गशोधनप्रकारमाह-दूपयेयुरिति । पुनर्वसौ जातस्य मम श्वस्तु नैधनतारा, अद्य साधनतारा, अतोऽयेव प्रयाणं कर्तव्यमित्याशयेनाह-उत्तरेत्यादि। हस्तेन योक्ष्यते, चन्द्रमा इति शेषः ॥६॥यानि Man निमित्तानि धन्यानि शुभसूचकानि तानि प्रादुर्भवन्ति अतो रावणं निहत्य सीतामानयिच्यामि आनेष्यामीति सम्बन्धः ॥ ७ ॥ नयनम्, दक्षिणमिति शेषः। मनोरथ मनोरथविषयम् ॥ ८-११ ॥ दूषयेषुः, विषादिनेति शेषः । मूलफलोदकमित्येकवद्भावः। परिरक्षेथाः रक्षेः ॥ १२ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy