________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
कुत इत्यत्राइ-युक्त इति । युक्तः यात्राईः। तत्र हेतुः। विजयः विजयावहः । विजयावहत्वे हेतुमाह दिवाकरः । मध्यं दिने मध्यं प्राप्तः। अभिनि । न्मुहूर्त इत्यर्थः । तदुक्तं विद्यामाधवीये-"आदौरंगमित्रमखावसुजलविश्वाभिजिदिरिश्चन्द्राः। ऐन्द्रामिमूलवरुणार्यमभगतारा दिवा मुहूर्ताः स्युः" इति । नन्वभिजिन्मुहूर्ता दक्षिणयात्रासु निषिद्धाः। यथा ज्योतिष्करत्नाकरे-“भुक्तो दक्षिणयात्रायां प्रतिष्ठायां द्विजन्मनि । आधाने च ध्वजारोहे मृत्युदः स्यात्सदाऽभिजित् ॥” इति । उच्यते-लका हि दक्षिणपूर्वस्यां किष्किन्धायाः, अतो नेयं दक्षिणयात्रेति नोक्तदोषः ॥३॥ मुहूर्तविशेषे प्रयाणस्य फलं।
अस्मिन् मुहूर्ते सुग्रीव प्रयाणमभिरोचये । युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः॥३॥ अस्मिन् मुहूर्ते विजये प्राप्ते मध्यं दिवाकरे । सीता हृत्वा तु मे जातु क्वासौ यास्यति यास्यतः ॥ ४॥ सीता श्रुत्वाऽभियानं
मे आशामेष्यति जीविते । जीवितान्तेऽमृतं स्टष्ट्वा पीत्वा विषमिवातुरः॥५॥ दर्शयति-अस्मिन्निति । दिवाकरे मध्यं प्राप्ते विजयाख्ये अस्मिन्मुहते यास्यतो मे यास्यति मयि । असौ रावणः । सीता हत्वा जातु कदाचित का यास्यति, यत्र कुत्रापि यान्तं तं हनिष्यामीत्यर्थः। सीतां हृत्वा तु मे यात्विति पाठे यातु राक्षसः। “नैर्ऋतो यातुरक्षसी" इत्यमरः । यद्वा यातु गच्छतु । कयास्यतीत्यन्वयः॥४॥ अद्येव सागरतरणोपायचिन्तां विना निर्गमस्य फलमाइ-सीतेति । मे अभियान प्रस्थानं सीता श्रुत्वा जीविते आशामेष्यति । श्रवणं च त्रिजटादिभ्य इति ज्ञेयम् । निर्गम विना केवलं विचाराकुलेष्वस्मासु जीविते सा निराशा स्यादिति भावः । कथमिव ? विष पीत्वा आतुरः पीडितः पुरुषः जीवितान्ते प्राणात्यये प्राप्ते अमृतं स्पृट्वेव ॥५॥ अस्मिन्नेव मुहर्ने प्रयाणमभिरोचय । कुतः युक्त इति । यतो दिवाकरो मध्यं मध्यन्दिनं प्राप्तः अतो मुहूतों विजयावहः अभिजित्संज्ञको युक्तः प्राप्तः ॥३॥ तत्र प्रयाणस्य फलमाह-अस्मिन्निति । आस्मिन्मुहूर्ते यास्यतो मे मयि यात्रा कुर्वति सति, असो रावण सीता इत्वा जाव कयास्यति कदाचिदपि कुत्रापि न यास्यतीत्यर्थः ॥ ४॥ तदानीमेव यात्रायाः फलमाह-सीतेति । आतुरो व्याधितः जीवितान्ते जीवितान्तसमये । अमृतं स्पृष्ठवेत्यन्वयः ॥५॥
स-राजत्वात्सुग्रीवं कटाक्षीकृत्याह-अस्मिन्निति । अस्मिन् अभिजिनामके मुहुर्ते प्रयाणमितोऽस्मनिर्गममभिरोचये । अभिरोचयेति पाठे-अनुमोदस्वेत्यर्थः । सुपीवप्रयाणमित्यैकपगेन हनुमदाभिमुख्येन वचनभित्यङ्गीकारे " अभिप्रयाम सुवीच सर्वानीकसमावृताः " इत्यनिमग्रन्यानानुगुण्यं स्फुटम् । मध्य नभोमध्यम् । दिवाकरो यतः प्राप्तः तस्मात् विजये विजयप्रदे मुहले । युक्तः, निर्गम इति शेषः । युक्तो मुद्रों विजयः इति प्रथमान्तपाठः स्फुटार्थः ॥ ३॥
For Private And Personal Use Only