________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
रणे इत्यनन्तरमितिकरणं बोध्यम् ॥ १५-१७ ॥ ततः सीतेत्यादिश्लोकद्वयम् । विप्रविद्धशरासनी भ्रष्टचापौ । सायकैश्छिन्नसाङ्गी अत एवला शरस्तम्बमयो शरगुल्ममयो । स्तम्बः समूह इत्येके । क्षितौ शरतल्पयोः शयानाविति सम्बन्धः ॥ १८॥ १९॥ तावित्यादिश्लोकद्वयम् । पावकी विमानेनापि सीता तु गत्वा त्रिजटया सह । ददर्श वानराणां तु सर्व सैन्यं निपातितम् ॥ १६॥ प्रहृष्टमनसश्चापि ददर्श पिशिताशनान । वानरांश्चापि दुःखानि रामलक्ष्मणपार्श्वतः ॥ १७॥ ततः सीता ददर्शोभौ शयानौ शर तल्पयोः । लक्ष्मणं चापि रामं च विसंज्ञौ शरपीडितौ ॥ १८ ॥ विध्वस्तकवचौ वीरौ विप्रविद्धशरासनौ । सायकै श्छिन्नसर्वाङ्गो शरस्तम्बमयो क्षितौ ॥ १९ ॥ तौ दृष्ट्वा भ्रातरौ तत्र वीरौ सा पुरुषर्षभौ । शयानौ पुण्डरीकाक्षौ कुमाराविव पावकी ॥२०॥ शरतल्पगतौ वीरौ तथाभूतौ नरर्षभौ । दुःखार्ता सुभृशं सीता सुचिरं विललाप ह। ॥ २१ ॥ भर्तारमनवद्याङ्गी लक्ष्मणं चासितेक्षणा । प्रेक्ष्य पांसुषु वेष्टन्तौ रुरोद जनकात्मजा ॥ २२ ॥ सा बाष्प शोकाभिहता समीक्ष्य तौ भ्रातरौ देवसमप्रभावौ । वितर्कयन्ती निधनं तयोः सा दुःखान्विता वाक्यमिदं जगाद
॥ २३ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमयुद्धकाण्डे सप्तचत्वारिंशः सर्गः ॥४७॥ पावकपुत्रौ स्कन्दविशाखौ । अत्रोत्तरो वीरशब्दः कुमारावित्यस्य विशेषणम् ॥२०॥२१॥ भारमिति । स्पष्टः ॥२२॥ सेति । अत्र वीक्षणगदनरूप क्रियाभेदात्तच्छन्दद्वयम् ॥ २३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तचत्वारिंशः सर्गः ॥१७॥ सर्वाभरणभूषिता सती मा मदीयां लक्ष्मी निवेदितां लक्ष्मीमित्यर्थः । उपस्थास्यते अनुभविष्यतीत्यर्थः । ननु कथं तत्समागम विना तस्य दर्शनमात्रेण सीता त्वदर्पितेश्वर्यमनुभविष्यतीत्यत्राह-अयेत्यादिसाश्लोकेन । कालवशं कालो वशो यस्य तम् । सलक्ष्मण रणे प्राप्तं राममवेक्ष्य अन्यो गतिमपश्यती रामन्यतिरिक्त प्राप्यं न पश्यती सती, परमपतिव्रतेत्यर्थः । अत एवानपेक्षा अत एव विनिवृत्ताशा एतादृश्यपि । 'सर्व वाक्पं सावधारणम् ' इति न्यायात अद्यैव स्वयमेव मां लक्ष्मीम, मर्पिता लक्ष्मीमुपस्थास्पतीत्यर्थः ॥ १०-१८ ॥ विप्रविद्धशरासनो भ्रष्टधनुष्को । शरस्तम्बमयो शरस्तम्बः शरसमूहः तन्मयो ॥ १९-२३ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायो युद्धकाण्डव्याख्यायां सप्तचत्वारिंशः सर्गः ॥ ४ ॥
For Private And Personal Use Only