________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
किनेन जलसिकेन ॥ ३५ ॥ एवममाङ्गल्यनिवृत्त्यर्थ श्रान्तिनिवृत्त्यर्थ वा नेत्रे प्रमृज्य राक्षसमायापरिज्ञानेनाप्यस्य धैर्यसम्पादनाभिप्रायेण विद्याभि मन्त्रितजलेनापि ममाजेत्याह-तत इति । विद्यया राक्षसमायादशनहेतुमन्त्रेण । परिजप्य अभिमन्य ॥३६॥ कालप्तम्प्राप्तं तत्कालोचितम् । असं भ्रमम् अव्याकुलमिति क्रियाविशेषणम् ॥ ३७॥ बेलव्यम् अधर्यम् । किं करोमि अतिस्नेह एवं बाधत इत्यत्राह अतिस्नेहोऽपीति ॥ ३८ ॥ एवं
ततः सलिलमादाय विद्यया परिजप्य च । सुग्रोवनेत्रे धर्मात्मा स ममा विभीषणः ॥ ३६॥ प्रमृज्य वदनं । तस्य कपिराजस्य धीमतः। अब्रवीत् कालसम्प्राप्तमसम्भ्रममिदं वचः ॥ ३७॥ न कालः कपिराजेन्द्र वैक्लव्यमनु वर्तितुम् । अतिस्नेहोऽप्यकालेऽस्मिन् मरणायोपकल्पते ॥ ३८॥ तस्मादुत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम् । हितं रामपुरोगाणां सैन्यानामनुचिन्त्यताम् ॥ ३९ ॥ अथवा रक्ष्यता रामो यावत् संज्ञाविपर्ययः । लब्धसंज्ञो हि काकुत्स्थौ भयं नो व्यपनेष्यतः ॥ ४० ॥ नैतत् किंचन रामस्य न च रामो मुमूर्षति । न ह्येनं हास्यते लक्ष्मी
दुलभा या गतायुषाम् ॥४१॥ प्रत्यक्तव्यमुक्त्वा कर्तव्यमुपदिशति-तस्मादिति । वैव्यमिति स्नेहस्याप्युपलक्षणम् । रामपुरोगाणां रामप्रभृतीनाम् । रामशरण्यानामित्यर्थः ॥३९॥
संज्ञाविपर्ययः मूच्र्छा यावदनुवर्तते तावद्रक्ष्यतामित्यर्थः॥४०॥ एवंभूतयोः कथं संज्ञाप्राप्तिस्तत्राद-नैतदिति । एतत् शत्रबन्धनम् । रामस्य न किंचन । इदमसत्यायम् , बाधकं न भवतीत्यर्थः। अतो न मुमूपति, मारष्यतीति शङ्का न कर्तव्येत्यर्थः । “ आशङ्कायामुपसङ्ख्यानम् " इति मियतेः सन् । एतच्च जीवनलिङ्गशरीरसौभाग्येन निश्चीयत इत्याह-न हीति । गतायुषां मृतानां या लक्ष्मीः मुखकान्तिः दुर्लभा । सा च एनं न हास्यते, न जहातीत्यर्थः । जीवनानुकूला लक्ष्मीश्यत इत्यर्थः॥११॥ पचमममाङ्गल्यनिरासार्थम् अद्भिः प्रमृज्य पश्चाद्राक्षसमायापरिज्ञानेनास्य धैर्यसम्पादनाभिप्रायेण विद्यामिमन्त्रितजलेन ममार्जेत्याह-तत इति । विद्यया शोक निवारकविद्यया ॥३६॥३७॥ अकाले विषमकाले ॥ ३८ ॥ ३९॥ अथवेति । रामः यावत्कालं संज्ञाविपर्ययः संज्ञया विपरीतः तावत् रक्ष्यताम् । ततो लब्ध संज्ञो नो भयं व्यपनेष्यत इति सम्बन्धः ।। ४. ॥ ननु मुम रामः कथमस्मान रक्षिप्यतीत्यत आह-तदिति । मुमूर्षाभावे लिगमाह न रानमिति ॥ ११ ॥
For Private And Personal Use Only