________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यत्कृते यन्निमित्तम् । गात्रैः शयनमस्पृष्ट्वा चिन्तयानस्यैव मम पितुः त्रियामा याति । यत्पौरुषभयान्मम पिता शर्वर्यामेकस्मिन्नपि यामे न निद्राती | त्यर्थः ॥ १५ ॥ लङ्का लङ्कास्थजनः । आकुला नदीपक्षे आविलेत्यर्थः । लङ्कापक्षे व्यग्रेत्यर्थः । सर्वेषामस्माकं मूलहरः अनर्थः अनर्थकरो रामः ॥ १६ ॥ यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम । अस्टवा शयनं गात्रैस्त्रियामा याति शर्वरी ॥ १५ ॥ कृत्स्नेयं यत्कृते लङ्गा नदी वर्षास्विवाकुला । सोऽयं मूलहरोऽनर्थः सर्वेषां निहतो मया ॥ १६ ॥ रामस्य लक्ष्मणस्यापि सर्वेषां चवनौकसाम् । विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः ॥ १७ ॥ एवमुक्त्वा तु तान सर्वान राक्षसान परिपार्श्वतः । यूथपानपि तान् सर्वास्ताडयामास रावणिः ॥ १८ ॥ नीलं नवभिराहत्य मैन्दं च द्विविदं तथा । त्रिभिस्त्रिभिरमित्रघ्नस्तताप प्रवरेषुभिः ॥ १९ ॥ जाम्बवन्तं महेष्वासो विद्रध्वा बाणेन वक्षसि । हनूमतो वेगवतो विससर्ज शरान् दश ॥ २० ॥ गवाक्षं शरभं चव द्वावप्यमिततेजसा । द्वाभ्यां द्वाभ्यां महावेगो विव्याध युधि रावणिः ॥ २१ ॥ गोलाङ्गलेश्वरं चैव वालिपुत्रमथाङ्गदम् । विव्याध बहुभिर्बाणैस्त्वरमाणोऽथ रावणिः ॥ २२ ॥ तानू वानरवरान् भित्त्वा शरैरग्निशिखोपमैः । ननाद बलवांस्तत्र महासत्त्वः स रावणिः ॥ २३ ॥ तानर्द यित्वा वाणवैखासयित्वा च वानरान् । प्रजहास महाबाहुर्वचनं चेदमब्रवीत् ॥ २४ ॥ शरबन्धेन घोरेण मया Eat चमूमुखे । सहितौ भ्रातरावेतौ निशामयत राक्षसाः ॥ २५ ॥
विक्रमाः सेतुबन्धनादयः ॥ १७ ॥ परिपार्श्वतः समीपतः ॥ १८ ॥ १९ ॥ हनूमतः हनूमदर्थमित्यर्थः । सम्बन्धसामान्ये षष्ठी ॥ २० ॥ २१ ॥ गोलाले श्वरं गवाक्षम् ॥ २२-२४ ॥ निशामयत पश्यत ॥ २५ ॥
यत्कृते यस्य कृतं करणं पौरुषमिति यावत । तस्मिन्निमित्ते सति गात्रैः शयनमस्पृष्ट्वा चिन्तयानस्य मत्पितुः त्रियामा रात्रिः याति यत्पौरुषभयाच्छवयमेकस्मिन्नपि यामे न निद्रातीत्यर्थः ।। १५-२१ ।। गोलाङ्गुलेश्वरं गवाक्षम् ।। २२-२४ ।। निशामयत पश्यत ।। २५-२९ ।।
स० [पत्कृते यस्य रामस्य निमित्तं शोकार्तस्य । खिया मन्दोदर्या अमा सह शयनं शय्या गात्रैरव चिन्तयानस्य मम पितुः शर्वरी याति । शार्वरीत्यपि कचित्पाठः । प्रज्ञायणि शार्वपि "शार्वरी शर्वरी शर्मा " इति शब्दार्णवः इत्यमरव्यादयाया मानुदीक्षितः । “अमा सहार्थान्तिकयोः " इति विश्वः ॥ ११ ॥
For Private And Personal Use Only