________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भिन्नमुष्टिपरीणाई शिथिलमुष्टिबन्धम् । त्रिनतं त्रिषु स्थानेषु पार्श्वयोर्मध्ये च नतम् । रुक्मभूषितं रुक्मपट्टबन्धम् । विज्यं शरसन्धानप्रसङ्गा । भावादिगतज्यम् । कार्मुकं धनुः । आदाय अवलम्ब्य । वीरशयने रणभूमौ शिश्ये ॥ २४॥ वाणेति । बाणपातान्तरे शरतल्पे ॥ २५ ॥ राममिति ।। शरबन्धपरिक्षतम् । बन्धः क्षतश्चेति द्वयमत्र शरकार्यमुच्यते ॥२६॥ हरयश्चेत्यर्धम् ॥२७॥ बद्धाविति । आदौ नागपाशबद्धौ । अथ शयानो
स वीरशयने शिश्ये विज्यमादाय कार्मुकम् । भिन्नमुष्टिपरीणाहं त्रिनतं रत्नभूषितम् ॥ २४ ॥ बाणपातान्तरे रामं पतितं पुरुषर्षभम् । स तत्र लक्ष्मणो दृष्ट्वा निराशो जीवितेऽभवत् ॥ २५॥ रामं कमलपत्राक्षं शरबन्धपरि क्षतम् ।शुशोच भ्रातरं दृष्ट्वा पतितं धरणीतले ॥ २६ ॥ हरयश्चापि तं दृष्ट्वा सन्तापं परमं गताः ॥ २७ ॥ बद्धौ तु वीरौ पतितौ शयानौ तौ वानराः सम्परिवार्य तस्थुः। समागता वायुसुतप्रमुख्या विषादमाताः परमं च जग्मुः ॥२८ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चचत्वारिंशः सर्गः॥४५॥
ततो द्या पृथिवीं चैव वीक्षमाणा वनौकसः । ददृशुः सन्ततौ बाणैभ्रातरौ रामलक्ष्मणौ ॥१॥ वृट्वेवोपरते देवे कृतकर्मणि राक्षसे । आजगामाथ तं देशं ससुग्रीवो विभीषणः ॥२॥
नीलदिविदमैन्दाश्च सुषेणकुमुदाङ्गदाः। तूर्ण हनुमता सार्धमन्वशोचन्त राघवौ ॥३॥ तु तौ वीरौ सम्परिवार्य वायुसुतादयो वानरास्तस्थुः । विषादं दुःखं जग्मुश्चेत्यन्वयः ॥ २८ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चचत्वारिंशः सर्गः ॥४५॥ अथ पूर्वसर्गोक्तमनुवदति-तत इत्यादि । द्याम् आकाशम् । सन्ततौ व्याप्ती ॥१॥ वृष्ट्वा उपरते देव इव स्थिते राक्षसे । कृतकर्मणि कृतशरवर्षरूपकर्मणि सति । तं देशं रामस्थानम् ॥२॥ नीलादयः सुग्रीवात्पूर्वमेवागताः॥३॥ भिन्नमुष्टिपरीणाहं मित्रः मुष्टिपरीणाहो मुष्टिग्रहणप्रदेशो यस्य तम् ॥ २४॥ बाणपातान्तरे वाणतल्पमध्ये ॥ २५-२८ ॥ इति श्रीमहेश्वरतीर्थविरचिताया श्रीरामायणतत्वदीपिकाख्यायां युद्धकाण्डव्याख्यायां पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ १-९॥
646
For Private And Personal Use Only