________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भावनायां तु महाजनानुष्ठानदर्शनेन स्वयमनुष्ठास्यति लोक इति रहस्यम् । रावणस्य मनुष्यैकवध्यत्वेन तद्भावनेत्यप्यादुः । नागपाशबद्धतयाऽवस्थानं तु धर्मनिरतानामपि कदाचिदापदुपतिष्ठति निवर्तते च झटितीति लोकानां प्रदर्शनायेति । एवं मोहादिष्वपि द्रष्टव्यम् ॥ ९ ॥ पर्यन्तरक्ताक्ष इत्यनेन ईषत्कोपवत्त्वं लक्ष्यते ॥ १० ॥ अनालक्ष्यं यथा भवति तथा युद्धयमानं मां शक्रस्त्रिदशेश्वरोऽपि द्रष्टुं मायया बलान्तरेण आसादितुं वापि न शक्तः । किं पुनर्युवां मानुषावित्यर्थः ॥ ११॥ राघवाविति संबोधनम् । अत्रापि युवामिति द्वितीयान्ततया विपरिणम्यानुषञ्जनीयम् । कङ्कपत्रिणा कङ्कपत्रवता । ततः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः । रावणिर्भ्रातरौ वाक्यमन्तर्धानगतोऽब्रवीत् ॥ १० ॥ युद्धयमानमनालक्ष्यं शक्रोऽपि त्रिदशेश्वरः । द्रष्टुमासादितुं वापि न शक्तः किं पुनर्युवाम् ॥ ११ ॥ प्रावृताविषुजालेन राघवौ कङ्कपत्रि एष रोषपरीतात्मा नयामि यमसादनम् ॥ १२ ॥ एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ । निर्विभेद शितैर्बाणैः प्रजहर्ष ननाद च ॥ १३ ॥ भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुः । भूयो भूयः शरान् घोरान् विससर्ज महामृधे ॥ १४ ॥ ततो मर्मसु मर्मज्ञो मज्जयन्निशितान् शरान् । रामलक्ष्मणयोर्वीरो ननाद च मुहुर्मुहुः ॥ १५ ॥ भरणमूर्धनि। निमेषान्तरमात्रेण न शेकतुरुदीक्षितुम् ॥ १६ ॥ ततो विभिन्नसर्वाङ्गौ शरशल्याचितावुभौ । ध्वजाविव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ ॥ १७ ॥ तौ सम्प्रचलितौ वीरौ मर्मभेदेन कर्शितौ । निपेततुर्महेष्वासौ जगत्यां जगतीपती ॥ १८ ॥
२०१
Acharya Shri Kalassagarsuri Gyanmandir
एष इत्यव्यवधानद्योतनाय ॥ १२ ॥ एवमिति । धर्मज्ञाविति शब्दवेध प्रयोगासहिष्णू इत्यर्थः ॥ १३ ॥ अञ्जनोपरि प्रदेशस्य धूसरत्वसंभवात् भिन्नेत्युक्तम् | ॥ १४ ॥ १५ ॥ निमेषान्तरमात्रेण निमेषावकाशमात्रेण, क्षणमात्रेणेत्यर्थः ॥ १६ ॥ शरशल्याचितौ शराग्रप्रोतौ कृतौ । रज्जुमुक्तौ मुकरज्जू । अत एव प्रकम्पितौ महेन्द्रस्य ध्वजाविव कृतौ । जगत्यां भूमौ । जगतीपती भूपती ॥ १७ ॥ १८ ॥
अनालक्ष्य अन्तर्धाय ॥ ११ ॥ प्रावृताविषुजालेनेत्यस्य प्रातीतिकार्थः स्पष्टः ॥ वस्तुतस्तु राघव इषुजालेन प्रावृतौ केवलम् यमसादनं नयामि वानरानिति
For Private And Personal Use Only