SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. १४०॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ नागपाशबन्धः पञ्चचत्वारिंशे - स तस्येत्यादि । गम्यत इति गतिः स्थानम् ॥ १ ॥ तानेव दश यूथपान् दर्शयति-द्वावित्यादिना । दायादी पुत्रौ ! " दायादौ सुतबान्धवौ ” इत्यमरः || २ || ३ || मार्गमाणाः मार्गितुमित्यर्थः ॥ ४ ॥ परमास्त्रैरिषुभिः परमास्त्ररूपरिषुभिः ॥ ६ ॥ ६ ॥ रामेति । भृशं सर्वदेहभिदः शरान् रामलक्ष्मणयोरेवाधिकरणयोरावेशयामास ॥ ७ ॥ निरन्तरशरीरौ, कृताविति शेषः । शरतां गतैः शरकार्य भेदनादिकं कुर्वद्भि रित्यर्थः ॥ ८ ॥ रामानु० - पन्नगैः शरतां गतः । शरकार्यं भेदनं पत्रकार्यं संवेष्टनं च कुर्वद्भिरित्यर्थः ॥ ८ ॥ तयोरिति । क्षतेन जातो मार्गः क्षतजमार्गः । ननु " न भूत स तस्य गतिमन्विच्छन् राजपुत्रः प्रतापवान् । दिदेशातिबलो रामो दश वानरयूथपान् ॥ १ ॥ द्वौ सुषेणस्य दायादौ नीलं च प्लवगर्षभम् । अङ्गदं वालिपुत्रं च शरभं च तरस्विनम् ॥ २ ॥ विनतं जाम्बवन्तं च सानुप्रस्थं महाबलम् । ऋषभं चर्षभस्कन्धमादिदेश परन्तपः ॥ ३ ॥ ते सम्प्रहृष्टा हरयो भीमानुद्यम्य पादपान् । आकाशं विविशुः सर्वे मार्गमाणा दिशो दश ॥ ४ ॥ तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैः । अत्रवित् परमास्त्रैस्तु वारयामास रावणिः ॥ ५ ॥ तं भीमवेगा हरयो नाराचैः क्षतविग्रहाः । अन्धकारे न ददृशुर्मेधैः सूर्यमिवावृतम् ॥ ६ ॥ रामलक्ष्मणयो रेव सर्वदेहभिदः शरान् । भृशमावेशयामास रावणिः समितिञ्जयः ॥ ७ ॥ निरन्तरशरीरौ तौ भ्रातरौ रामलक्ष्मणौ । क्रुद्धेनेन्द्रजिता वीरौ पन्नगैः शरतां गतैः ॥ ८ ॥ तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु । तावुभौ च प्रकाशेते पुष्पिताविव किंशुकौ ॥ ९ ॥ सङ्घसंस्थानो देहोऽस्य परमात्मनः। न तस्य प्राकृता मूर्तिर्मासमेदोस्थिसम्भवा ॥" इत्यादिभिः रामलक्ष्मणयोर्दिव्यविग्रहस्याप्राकृतत्वस्मरणात्कथं रुधिरो द्रुम इति चेदत्राहुः । वस्तुतोऽनयो रुधिराभावेऽपि मनुष्यभावनानुरोधेन नट इव रुधिराणि दर्शयतः स्म । नन्वेवं निर्बन्धेन मनुष्यभावं भावयतः किं प्रयो जनम् ? शृणुः सर्वात्मना मनुष्यभावनाननुरोधे जन एवं मन्येत नायं मर्त्यः किं तु देवः तेन तद्वदस्माकं न शक्यमनुष्ठातुं धर्मानिति । सर्वथा मनुष्य स इति । तस्य इन्द्रजितः गतिम् अवस्थानप्रदेशम् अन्विच्छन ज्ञातुमिच्छन् दिदेश आदिदेश ॥ १-४ ॥ तेषामिति । परमास्त्रेण ब्रह्मास्त्रमन्त्रेण अभिमन्त्रितैरिषुभि वरयामासेति सम्बन्धः ।। ५-८ ।। तयोरिति । क्षतजमार्गेण क्षतेन व्रणेन जातो मार्गः तेन ॥ ९ ॥ १० ॥ For Private And Personal Use Only टी. यु. कॉ स० [४५ ॥१४०॥
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy