________________
She Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsuri Gyanmandir
www.kobatirth.org
स इति । अन्तर्धानगतः अन्तर्धानविद्या प्राप्तः॥ ३७ ॥ सर्वगात्रेषु सर्वावयवेषु ॥ ३८॥ मायया संवृतः मायया युक्तः। अत एव अदृश्यः । कूटयोधी कपटयोधी । राघवो रघुकुलोद्भवो रामलक्ष्मणौ। शरबन्धेन शररूपबन्धकेन बबन्ध । वेष्टनर्दशनादिना नागमयत्वम् । वेदनादिना शरमयत्वम्
स ब्रह्मणा दत्तवरत्रैलोक्यं बाधते भृशम् । भवतामर्थसिद्धयर्थं कालेन स समागतः। अद्यैव क्षमितव्यं मे भवन्तो विगतज्वराः॥ ३६॥सोऽन्तर्धानगतः पापो रावणी रणकर्कशः। अदृश्यो निशितान् बाणान मुमोचाशनिवर्चसः ॥३७॥ स राम लक्ष्मणं चैव घोरैनागमयैः शरैः। बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः॥३८॥ मायया संवृतस्तत्र मोहयन राघवौ युधि। अदृश्यः सर्वभूतानां कूटयोधी निशाचरः । बबन्ध शरबन्धेन भ्रातरौ रामलक्ष्मणौ ॥३९॥ तो तेन पुरुषव्याघ्रौ क्रुद्धनाशीविषैः शरैः। सहसा निहतौ वीरौ तदा प्रेक्षन्त वानराः ॥ ४० ॥ प्रकाशरूपस्तु यदा न शक्तस्तौ बाधितुं राक्षसराजपुत्रः। मायाँ प्रयोक्तुं समुपाजगाम बबन्ध तौ राजसुतौ महात्मा ॥४१॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुश्चत्वारिंशः सर्गः॥ १४ ॥ ॥ ३९॥ १०॥ मायाप्रयोगः किमर्थस्तत्राह-प्रकाशेति । समुपाजगाम उपचक्रमे । बबन्ध च । महात्मा महाबुद्धिः ॥ ११॥ इति श्रीगोविन्दराज विरचिते श्रीरामायणभूषणे रखकिरीटाख्याने युद्धकाण्डव्याख्याने चतुश्चत्वारिंशः सर्गः॥१४॥ सः इन्द्रजित ब्रह्मणा दत्तवरस्सन् त्रैलोक्यं बाधते । किच कालेन कालवलेन भवतामसिद्धयर्थ समागतः कालबलेन भवतो जेतुं समागत इत्यर्थः । अबैध मे मया क्षमितव्यं ब्रह्मणो मान्यत्वादिति भावः । भवन्तो विगतज्वरास्तिष्ठन्विति पूर्वेण सम्बन्धः ॥३६-४०॥ समुपाजगाम उपचक्रमे । रामकर्तकेन्द्र जित्प्रयुक्तनागपाशवन्धनसहनस्यायमाशया-ईपदभङ्गमात्रेण सर्वजगत्संहर्तुस्सर्वेश्वरस्य श्रीरामस्य इन्द्रजित्प्रयुक्तनागपाशबन्धनसहनं स्वकृतमर्यादारूपबह्म वरदानपालनार्थ ब्रह्मणो मान्यतार्थं चेति ज्ञातव्यम् । अस्मिन् काण्डेऽन्यत्राप्येताहशस्थलेष्वेवमेवानुसन्धेयम् ॥ ४१ ॥ इति श्रीमहेश्वरतीर्थविरचिताया श्रीरामायणतपथदीपिकाख्या युद्धकाण्डप्याख्यायां चतुश्चत्वारिंशः सर्गः ॥४॥
For Private And Personal Use Only