________________
Shri Mahavir Jain Aradhana Kendra
चा.रा.भू. ॥१३९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| ये त्विति । पावकं समासाद्येत्यन्वयः ||२३||२४|| राक्षसानामिति । पूर्वमेव घोरा सा भूयः विशिष्य घोरतरा बभूव ॥ २५ ॥ प्रव्याहरदिव प्रतिव्याहर | दिवेत्यर्थः ॥ २६ ॥ भक्षयन् अभक्षयन् ॥ २७ ॥ पूर्वप्रसक्तस्याङ्गदेन्द्रजितोर्द्वन्द्वयुद्धस्य शेषं वक्तुमुपक्रमते-अङ्गदस्त्वित्यादिना ॥ २८ ॥ तत्रैव तस्मिन्
ये त्वन्ये राक्षसा भीमा रामस्याभिमुखे स्थिताः । तेऽपि नष्टाः समासाद्य पतङ्गा इव पावकम् ॥ २३ ॥ सुवर्ण पुङ्खैर्विशिखैः सम्पतद्भिः सहस्रशः । बभूव रजनी चित्रा खद्योतैरिव शारदी ॥ २४ ॥ राक्षसानां च निनदेहरीणां चापि निस्वनैः । सा बभूव निशा घोरा भूयो घोरतरा तदा ॥ २५ ॥ तेन शब्देन महता प्रवृद्धेन समन्ततः । त्रिकूटः कन्दराकीर्णः प्रव्याहरदिवाचलः ॥ २६ ॥ गोलाङ्गुला महाकायास्तमसा तुल्यवर्चसः । सम्परिष्वज्य बाहुभ्यां भक्षयन् रजनीचरान् ॥२७॥ अङ्गदस्तु रणे शत्रुं निहन्तुं समुपस्थितः । रावणिं निजघानाशु सारथिं च हयानपि ॥ २८ ॥ वर्तमाने तदा घोरे सङ्ग्रामे भृशदारुणे । इन्द्रजित्त रथं त्यक्त्वा हताश्वो हतसारथिः । अङ्गदेन महाकाय स्तत्रैवान्तरधीयत ॥ २९ ॥ तत्कर्म वालिपुत्रस्य सर्वे देवाः सहर्षिभिः । तुष्टुवुः पूजनाईस्य तौ चोभौ रामलक्ष्मणौ ॥ ३० ॥ प्रभावं सर्वभूतानि विदुरिन्द्रजितो युधि । [ अदृश्यः सर्वभूतानां योऽभवद्युधि दुर्जयः ।] तेन ते तं महात्मानं तुष्टा दृष्ट्वा प्रधर्षितम् ॥ ३१ ॥ ततः प्रहृष्टाः कपयः ससुग्रीवविभीषणाः। साधु साध्विति नेदुश्च दृष्ट्वा शत्रुं प्रधर्षितम् ॥ ३२ ॥ इन्द्रजित्तु तदा तेन निर्जितो भीमकर्मणा । संयुगे वालिपुत्रेण क्रोधं चक्रे सुदारुणम् ॥ ३३॥ एतस्मिन्नन्तरे रामो वानरान वाक्यमब्रवीत् ॥ ३४ ॥ सर्वे भवन्तस्तिष्ठन्तु कपिराजेन सङ्गताः ॥ ३५ ॥ देश एव ॥ २९ ॥ पूजनाईस्य स्तुत्यर्हस्य ॥ ३० ॥ ते तानि । लिङ्गव्यत्यय आर्षः । महात्मानं महाधैर्यम् । तेन अङ्गदेन । प्रधर्षितं पराजितम् । दृड्डा तुष्टाः ॥ ३१-३३ ॥ एतस्मिन्नित्यर्धम् ॥ ३४ ॥ सर्व इत्यर्धम् || ३६ || ३६ ||
तेन शब्देनेति । मव्याहरत् प्रतिव्याहरदिव ॥ २६-३५ ॥
For Private And Personal Use Only
A.g.ut.
स० ४४
॥१३९