________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
हतैरित्यादिश्लोकद्भयमेकान्वयम् । निहतैरिति राक्षसविशेषणम् । पर्वतायैः वानरप्रेरितैः । उपलक्षणे तृतीया । शस्त्राण्येव पुष्पोपहाराः पुष्पबलयो यस्यां सा । तब तदा । दुइँया कृच्छज्ञेया। प्रतियोधिनः दुनिवेशा दुष्प्रवेशा ॥ १४॥१५॥ कालरात्रिः भीमरथिरात्रिः, “रात्रिभमिरथिर्नाम
हतैर्वानरवीरैश्च शक्तिशूलपरश्वधैः । निहतैः पर्वताप्रैश्च राक्षसैः कामरूपिभिः ॥ १४॥ शस्त्रपुष्पोपहारा च तत्रा सीधुद्धमेदिनी । दुर्जेया दुर्निवेशा च शोणितास्रावकर्दमा ॥ १५॥ सा बभूव निशा घोरा हरिराक्षसहारिणी । कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा ॥ १६॥ ततस्ते राक्षसास्तत्र तस्मिस्तमसि दारुणे । राममेवाभ्यवर्तन्त संसृष्टाः शरवृष्टिभिः ॥ १७॥ तेषामापततां शब्दः क्रुद्धानामपि गर्जताम् । उद्वर्त इव सप्तानां समुद्राणां प्रशुश्रुवे ॥ १८॥ तेषां रामः शरैषभिष्षड् जघान निशाचरान् । निमेषान्तरमात्रेण शितैरग्निशिखोपमैः ॥ १९॥ यम शत्रुश्च दुर्धर्षों महापार्श्वमहोदरौ। वजदंष्ट्रो महाकायस्तो चोभी शुकसारणौ ॥ २०॥ ते तु रामेण बाणोधैः सर्वे मर्मसु ताडिताः । युद्धादपसृतास्तत्र सावशेषायुषोऽभवन् ॥२१॥ तत्र काञ्चनचित्राङ्गैः शरैरग्निशिखोपमैः । दिशश्चकार विमलाः प्रदिशश्च महाबलः ॥ [रामनामाङ्कितैर्वाणैयाप्तं तद्रणमण्डलम् ] ॥२२॥ सर्वप्राणिभयावहा" इत्युक्तेः। शक्तिर्वा, "सती च कालरात्रिश्च भैरवी गणनायिका " इत्युक्तेः ॥ १६॥ तत इति । संसृष्टाः संमिलिताः ॥१७॥ तेषामिति । उद्धर्ते अभिवृद्धौ प्रलये वा ॥ १८॥ रामानु०-उद्धतें संवर्ते ॥ १८ ॥ तेषां राक्षसानां मध्ये षट् निशाचरान् अग्निशिखोपमैः शितैः शरैः जघान ॥ १९॥ रामानु-शितैरग्निशिखोपमैरिति पाठः ॥ १९ ॥ के तेपडित्यपेक्षायामाह-यमेति । दुर्धर्षः धर्षितुमशक्यः यमशत्रुः । महोदरमहापाचौँ । महाकायः वज्रदंष्ट्रः । तो उत्तरद्वाररक्षकत्वेन पूर्वोक्तो उभौ शुकसारणौ चेति षट् । अत्र महाकाय इति वज्रदंष्ट्रविशेषणम् । अपमृताः पलायिताः। सावशेषायुषः आयुश्शेषयुक्ता इति जीवने हेतुः॥२०॥२१॥ तत्रेति । महाबलः रामः ॥२२॥ शस्त्रपुष्पोपहारा शस्त्राण्येव पुष्पोपहाराः यस्यास्प्ता ॥ १५--१७ ॥ उद्वर्ते प्रलयकाले ॥ १८--२५ ॥
For Private And Personal Use Only