________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥१३८॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
प्राणहारिणी, वानराणामिति शेषः ॥ १ ॥ २ ॥ हरिश्चासीति राक्षसा इति दारुणतमस्कत्वेन रक्षसामपि मोहोऽभूदिति भावः ॥ ३ ॥ ४ ॥ कालाः नीलाः । काञ्चनसन्राहाः काञ्चनकवचाः । दीप्तोषधिवनाः दीप्ततृणज्योतिर्वनाः ॥ ५ ॥ परिपेतुः सञ्चेरुः || ६ || ते वानराः काञ्चनापीडान् अन्योन्यं बद्धवैराणां घोराणां जयमिच्छताम् । सम्प्रवृत्तं निशायुद्धं तदा वानररक्षसाम् ॥२॥ राक्षसोऽसीति हस्यो हरिश्चासीति राक्षसाः । अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे ॥ ३ ॥ जहि दारय चैहीति कथं विद्रवसीति च। एवं सुतुमुलः शब्दस्तस्मिंस्तमसि शुश्रुवे ॥ ४ ॥ कालाः काञ्चनसन्नाहास्तस्मिंस्तमसि राक्षसाः । सम्प्रादृश्यन्त शैलेन्द्रा दीप्तोषधिवना इव ॥ ५ ॥ तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूर्च्छिताः । परिपेतुर्महावेगा भक्षयन्तः प्लवङ्गमान् ॥ ६ ॥ ते हयान् काञ्चनापीडान ध्वजांश्चाग्निशिखोपमान् । आप्लुत्य दशनैस्तीक्ष्णैर्भीमकोपा व्यदार यन् ॥७॥ वानरा बलिनो युद्धेऽक्षोभयन् राक्षसीं चमूम् । कुञ्जरान् कुञ्जरारोहान् पताकाध्वजिनो रथान् । चकर्षुश्च ददंशुश्च दशनैः क्रोधमूर्च्छिताः ॥ ८ ॥ लक्ष्मणश्चापि रामश्च शरैराशीविषोपमैः । दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः ॥ ९ ॥ तुरङ्गखुरविध्वस्तं रथनेमिसमुत्थितम् । रुरोध कर्णनेत्राणि युद्धयतां धरणीरजः ॥ १० ॥ वर्तमाने महाघोरे सङ्ग्रामे रोमहर्षणे । रुधिरोदा महाघोरा नद्यस्तत्र प्रसुस्रुवुः ॥ ११ ॥ ततो भेरीमृदङ्गानां पणवानां च निस्वनः । शङ्खवेणुस्वनोन्मिश्रः सम्बभूवाद्भुतोपमः ॥ [ विमर्दे तुमुले तस्मिन् देवासुररणोपमे । ] ॥ १२ ॥ हतानां स्तनमानानां राक्षसानां च निस्वनः । शस्तानां वानराणां च सम्बभूवातिदारुणः ॥ १३ ॥
सुवर्णशेखरान् ॥ ७ ॥ वानरा इत्यादिसार्द्धश्लोकः । युद्धेोभयन्त्रित्यत्र अक्षोभयन्निति पदच्छेदः ॥ ८ ॥ दृश्यादृश्यानि ईषदृश्यानीत्यर्थः ॥ ९ ॥ विध्वस्तं चूर्णितम् ॥१०॥ रुधिरोदाः । असंज्ञायामप्युदकशब्दस्योदादेशः आर्षः ||११||१२|| स्तनमानानां स्तनताम् । शस्तानां हिंसितानाम् ॥ १३ ॥ कालाः नीलाः । काञ्चनसन्नाहाः सुवर्णकवचाः ॥ ५-०७ ॥ वानरा इति । युद्धे अक्षोभयत्रिति चच्छेदः ॥ ८-१४ ॥
For Private And Personal Use Only
टी. यु.का. स० ४४
॥१३८॥