________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
स.रा.भू. ॥१२॥
स०४६
सप्तपणेन सप्तपर्णवृक्षेण ॥२५॥२६॥ अग्निशिखोपमैः अग्निज्वालोपमैः॥२७ ।। पुराट्टः पुरवलभिः ॥२८॥२९॥ क्षिप्रहस्तःक्षिप्रकारिहस्तः। निकुम्भः प्रजहास चेति पाठः सम्यक् ॥ ३० ॥ शिरश्चिच्छेद सारथरित्यनन्तरं वज्राशनिसमस्पर्श इति श्लोकः । ततो द्विविदं वानरेन्द्रं विति
असन्तमिव सैन्यानि प्रघसं वानराधिपः। सुग्रीवः सप्तपर्णेन निर्बिभेद जघान च ॥२५॥ अनिकेतुश्च दुर्धर्षा रश्मि केतुश्च राक्षसः। सुप्तघ्नो यज्ञकोपश्च रामं निर्बिभिदुः शरैः॥२६॥ तेषां चतुर्णा रामस्तु शिरांसि निशितैः शरैः। क्रुद्धश्चतुर्भिश्चिच्छेद घोरैरग्निशिखोपमैः ॥२७॥ वजमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे। पपात सरथः साश्वः पुराट्ट इव भूतले ॥ २८॥ निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम् । निर्विभेद शरैस्तीक्ष्णैः करैर्मेघमिवांशुमान ॥२९॥ पुनः शरशतेनाथ क्षिप्रहस्तो निशाचरः। विभद समरे नीलं निकुम्भः प्रजहास च ॥३०॥ तस्यैव रथचक्रेण नीलो विष्णुरिवाहवे। शिरश्चिच्छेद समरे निकुम्भस्य च सारथः ॥३१॥ वज्राशनिसमस्पर्शो द्विविदो ऽप्यशनिप्रभम् । जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम् ॥३२॥ द्विविदं वानरेन्द्रं तु नगयोधिनमाहवे । शरैरशनि सङ्काशैः स विव्याधाशनिप्रभः ॥ ३३ ॥ स शरैरतिविद्धाङ्गो द्विविदः क्रोधमूञ्छितः । सालेन सरथं साश्वं निज घानाशनिप्रभम् ॥ ३४ ॥ विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैः । सुषेणं ताडयामास ननाद च मुहुर्मुहुः ॥३५॥ तं रथस्थमथो दृष्ट्वा सुषेणो वानरोत्तमः । गिरिशृङ्गेण महता रथमाशु न्यपातयत् ॥ ३६ ॥ लाघवेन तु संयुक्तो विद्युन्माली निशाचरः। अपक्रम्य रथातूण गदापाणिः क्षितौ स्थितः ॥ ३७॥ ततः क्रोधसमाविष्टः सुषेणो हरिपुङ्गवः । शिलां सुमहतीं गृह्य निशाचरमभिद्रवत् ॥ ३८॥ शोकः॥३१-३६ ॥ अपक्रम्य अवप्लुत्य ॥३७॥ अभिद्रवत् अभ्यद्रवत् ॥ ३८॥३९॥ ततः क्रोधेति । अभिषत अभ्यद्रवत् ॥ १८-४१ ॥ स०-आहये चक्रेण विष्णरिव समरे निकुम्भस्य सारथेः शिरविच्छेदेत्यन्वयः ॥ ११ ॥
17
॥१३॥
For Private And Personal Use Only