________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
कर
रणदुर्धरः रणे दुर्निग्रहः ॥ १३ ॥ १४॥ द्वन्दं द्वन्द्वत्वम् । बहुधा युद्धाय शस्त्रास्त्रबाहुचरणप्रभृतिभिर्युद्धाय । बहुभिरिति राक्षसविशेषणाद्वानराश्चेत्य चापि बहव इति विशेषणं विज्ञेयम् ॥ १५॥ तुमुलं व्याकुलम् ॥ १६॥ केशशादला केशैः शाहलवत्यः। सङ्घाटः काष्ठसञ्चयः ॥ १७॥ आजधान
वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः । समरे तीक्ष्णवेगेन नलेन समयुद्धयत ॥ १३॥ धर्मस्य पुत्रो बलवान सुषेण इति विश्श्रुतः । स विद्युन्मालिना सार्धमयुध्यत महाकपिः॥ १४ ॥ वानराश्चापरे भीमा राक्षसैरपरैः सह । द्वन्द्वं समीयुर्बहुधा युद्धाय बहुभिः सह ॥ १५॥ तत्रासीत सुमहद्युद्धं तुमुलं रोमहर्षणम् । रक्षसां वानराणां च वीराणां जयमिच्छताम् ॥१६॥ हरिराक्षसदेहेभ्यः प्रभृताः केशशादलाः। शरीरसङ्घाटवहाः प्रसनुः शोणितापगाः ॥१७॥ आजघानेन्द्रजित् क्रुद्धो वजेणेव शतक्रतुः । अङ्गद गदया वीरं शत्रुसैन्यविदारणम् ॥१८॥ तस्य काञ्चनचित्रा रंथ सावं ससारथिम् । जघान समरे श्रीमानङ्गदो वेगवान् कपिः॥ १९॥ सम्पातिस्तु त्रिभिर्बाणैः प्रजङ्घन समा हृतः । निजघानाश्वकर्णेन प्रजच रणमूर्धनि ॥२०॥ जम्बुमाली रथस्थस्तु स्थशक्त्या महाबलः । विभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे ॥२१॥ तस्य तं रथमास्थाय हनूमान् मारुतात्मजः। प्रममाथ तलेनाशु सह तेनैव रक्षसा ॥ २२॥ नदन् प्रतपनी घोरो नलं सोऽप्यन्वधावत ॥२३॥ नलः प्रतपनस्याशु पातयामास चक्षुषी। भिन्न
गात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा ॥ २४ ॥ ताडयामास ॥ १८-२० ॥ रथशक्त्या रथ एव सदा वर्तमानया शक्त्या ॥२१॥ आस्थाय आरुह्य ॥२२॥ नदन्नित्यर्धमेकं वाक्यम् ॥२३॥ रक्षसा प्रतपनेन । भिनगात्र इत्यस्य पूर्वेणान्वयः ॥२४॥ हरिराक्षसेति । केश: शाहलाः शालवत्यः। शरीरसङ्घाटवहाः शरीराण्येव सङ्घाटाः काष्ठसञ्चयाः तान वहन्तीति तथा ॥ १७-२०॥ रथशक्त्या रथस्थ शतया ॥ २१.-२३ ॥ रक्षसा भिन्नगात्रो नलः प्रतपनस्य चक्षुषी पातयामासेति सम्बन्धः ॥ २४-३७ ॥
For Private And Personal Use Only