________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.भ.
टी.यु.
टा.यु.का.
च मनोरमैः ॥२ चमूहती जयमिच्छताणां च द्वन्द्वयुद्ध
अथ द्वन्द्वयुद्धं वर्णयति त्रिचत्वारिंशे-युद्ध्यतां त्वित्यादि । वानराणां युद्धयतां वानरेषु युद्धयमानेषु । बलकोपः सेनायाः कोपः। बलेत्यविभक्तिक निर्देशः॥१॥ ते हयरित्यादिश्लोकद्वयमेकान्वयम् । काञ्चनापीडैः स्वर्णमयशेखरैः । इयरित्यायुपलक्षणे तृतीया । राक्षसव्याघ्राः राक्षसश्रेष्ठाः । राक्षस युद्धयतां तु ततस्तेषां वानराणां महात्मनाम् । रक्षसां सम्बभूवाथ बलकोपः सुदारुणः ॥३॥ ते हयैः काञ्चनापीडै
वंजैश्चाग्निशिखोपमैः। रथैश्चादित्यसङ्काशैः कवचैश्च मनोरमैः ॥२॥ निर्ययू राक्षसव्याघ्रा नादयन्तो दिशो दश । राक्षसा भीमकर्माणो रावणस्य जयैषिणः॥ ३ ॥ वानराणामपि चमूहती जयमिच्छताम् । अभ्यधावत तां सेना रक्षसां कामरूपिणाम् ॥ ४॥ एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम् । रक्षसां वानराणां च द्वन्द्वयुद्ध मवर्तत ॥५॥ अङ्गदेनेन्द्रजित् सार्ध वालिपुत्रेण राक्षसः। अयुध्यत महातेजात्रयम्बकेण यथाऽन्तकः ॥६॥ प्रज वेन च सम्पातिर्नित्यं दुर्मर्षणो रणे। जम्बुमालिनमारब्धो हनुमानपि वानरः॥७॥ सङ्गतः सुमहाक्रोधो राक्षसो रावणानुजः। समरे तीक्ष्णवेगेन मित्रघ्नेन विभीषणः ॥८॥ तपनेन गजः सार्धे राक्षसेन महाबलः । निकुम्भेन महातेजा नीलोऽपि समयुद्धयत ॥९॥ वानरेन्द्रस्तु सुग्रीवः प्रघसेन समागतः। सङ्गतः समरे श्रीमान विरूपाक्षेण लक्ष्मणः॥ १० ॥ अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः। सुप्तन्नो यज्ञकोपश्च रामेण सह सङ्गताः ॥ ११॥
वजमुष्टिस्तु मैन्देन द्विविदेनाशनिप्रभः। राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ ॥ १२॥ श्रेष्ठत्वेऽपि जात्यन्तरत्वं संभवतीति राक्षसा इत्युक्तम् ॥२-६॥ दुर्मर्षणः दुःसहः । प्रजङ्घो राक्षसः । सम्पातिः विभीषणसचिवः। आरब्धः, हन्तुमिति । शेषः॥७-१०॥ सुप्तवयज्ञकोपौ चेति वा पाठः॥११॥राक्षसाभ्यां वज्रमुष्टयशनिप्रभाभ्याम् । कपिमुख्यौ मैन्दद्विविदौ । अनेन परस्परसङ्गतिरुक्ता ॥१२॥ युद्धयतामिति । बलकोपः बलस्य कोपः ॥ १॥ काधनापी: काशनभूषणवद्भिः । अग्निशिखोपमैः तद्वदुर्द्धर्षेः ॥२-४ ॥ अन्योन्यमभिधावर्ता द्वन्द्वयुद्धार्थमिति भावः ॥५॥६॥ दुर्मर्षण: दुस्सहः । आरब्धः, प्रहर्तुमिति शेषः ॥ ७--१६ ॥
॥१३६॥
For Private And Personal Use Only