________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
"सुपा सुलुक्-" इत्यादिना शेआदेशः॥ राजेत्यर्धम् । स्पष्टम् ॥४१-४३॥ राजनित्यादिसाश्चोकः । स्वस्वनामकथा तत इति । नामकयां चोक्त्वा ततो निजरित्युत्तरत्रान्वयः। नामकथानाम् अन्ततः अन्ते इति वा योजना । वेगिताः सातवेगाः । वेपिता इति पाठे-कोपेन कम्पमाना इत्यर्थः॥४॥ भिन्दिपाले गदाभेदैः॥ १५॥ समाप्लुत्य प्राकाराप्रपर्यन्तमुत्पत्य । प्लवनं प्लुतगतिं गच्छन्तीति वङ्गमाः । असंज्ञायामपि खशार्षः। अनेन प्लुतगति
राजन जय जयेत्युक्त्वा स्वस्वनामकथान्ततः। तथा वृक्षैर्महाकायाः पर्वतायैश्च वानराः । निजध्नुस्तानि रक्षासि नखैर्दन्तैश्च वेगिताः॥४४॥ राक्षसास्त्वपरे भीमाः प्राकारस्था महीगतान् । भिन्दिपालैश्च खङ्गैश्च शुलैश्चैव । व्यदारयन् ॥४५॥ वानराश्चापि संक्रुद्धाः प्राकारस्थान महीगताः। राक्षसान पातयामासुः समाप्लुत्य प्लवङ्गमाः ॥४६॥ स सम्प्रहारस्तुमुलोमांसशोणितकर्दमः । रक्षसां वानराणां च सम्बभूवाद्भुतोपमः॥१७॥
इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्विचत्वारिंशः सर्गः ॥ ४२ ॥ मत्त्वमुक्तम् । अतो न वानरशब्देन पुनरुक्तिः॥४६॥ सम्प्रहारः युद्धम् । तुमुलः परस्परसङ्कलः। मांसशोणितान्येव कर्दमो यस्मिन् स मांसशोणित कर्दमः । अद्भुतोपमा दुर्लभोपम इति यावत् ॥४७॥ इति श्रीगोविन्द श्रीरामायण रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने द्विचत्वारिंशः सर्गः ॥४२॥
सम्बन्धः ॥ ४०-४३ ॥ स्वस्वनामकथान्ततः स्वस्वनामकथान्ते निजघ्नुरिति सम्बन्धः ॥ ४४ ॥ (राक्षसास्त्वपरे इत्यध प्रक्षिप्तमिति कतकः ॥ ४५ ॥ प्लवङ्गमाः प्रवर्गमनशीलाः ॥४६॥ स सम्प्रहार इति । पताद्धोत्तरं प्रत्यवहारस्सेनाया इति भारताल्लभ्यते । “ततः प्रत्यवहारोऽभूत्सैन्यानां राघवाज्ञया" इत्यादि तत्रोक्तम् ॥ ४७ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्वदीपिकाख्यायो युद्धकाण्डव्याख्यायां द्विचत्वारिंशः सर्गः॥ ४२ ॥
स०-सेनाप्रत्यवहारोऽत्रानुक्तोऽपि " ततः प्रत्यवहारोऽभून्सैन्यानां गधवाज्ञया ॥ ततो निविशमानस्तान् सैनिकानावणानुगाः । अभिजम्मुर्गणा एके पिशाचक्षुद्ररक्षसाम् ॥ ततोऽभिपतता तेषामदृश्याना दुरात्मनाम् । अन्तर्धानवधं तज्ज्ञश्चकार स विभीषणः ॥ " इति भारतवनपर्वोक्तोऽनुसन्धेषः ॥ ७ ॥
For Private And Personal Use Only