________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.मू.
॥१३५॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
वाद्यभाण्डमुखे जले" इत्यमरः । कोणो वाद्यताडनदण्डः । विनेदुरित्यनुकर्षः । अथवा प्रचोदिताः सस्वनुरित्यर्थः ॥ ३४ ॥ ३५ ॥ शुभनीलाङ्गाः आभरण प्रभाभिः शोभमानानि नीलानि चाङ्गानि येषां ते । अत एव विद्युन्मण्डलसन्नद्धा इति नाधिकोपमा । विद्युन्मण्डलसन्नद्धा इत्युपमानविशेषणेन उपमेयेषु राक्षसेषु सभूषणत्वं गम्यत इत्यप्याहुः || ३६ || सैन्याः सेनायां समवेता जनाः । “सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते " इत्यमरः । ते बभुः शुभनीलाङ्गाः सशङ्खा रजनीचराः । विद्युन्मण्डलसन्नद्धाः सबलाका इवाम्बुदाः ॥ ३६ ॥ निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः । समये पूर्यमाणस्य वेगा इव महोदधेः ॥ ३७ ॥ ततो वानरसैन्येन मुक्तो नादः सम न्ततः । मलयः पूरितो येन स सानुप्रस्थकन्दरः ॥ ३८॥ शङ्खदुन्दुभिसंघुष्टः सिंहनादस्तरस्विनाम् । पृथिवीं चान्त रिक्षं च सागरं चैव नादयन् ॥ ३९ ॥ गजानां बृंहितैः सार्धं हयानां हेषितैरपि । रथानां नेमिघोषैश्च रक्षसां वदन स्वनः ॥४०॥ एतस्मिन्नन्तरे घोरः सङ्ग्रामः समवर्तत । रक्षसां वानराणां च यथा देवासुरे पुरा ॥ ४१ ॥ ते गदाभिः प्रदीप्ताभिः शक्तिशलपरश्वधैः । निजघ्नुर्वानरान् घोराः कथयन्तः स्वविक्रमान् ॥ ४२ ॥ [ वानराश्च महावीर्या राक्षसान् जघ्नुराहवे । जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ] राजा जयति सुग्रीव इति शब्दो महानभूत् ॥ ४३ ॥ समये प्रलये, चन्द्रोदये वा । वेगाः पूराः ॥ ३७ ॥ मलयः त्रिकूटः । सः प्रसिद्धः । सानुप्रस्थकन्दरः अनुप्रस्थं प्रस्थे प्रस्थे स्थिताः याः कन्दराः ताभिः सह वर्तत इति विग्रहः । यद्वा सानुः वप्रः प्रस्थः तटः कन्दरा गुहेत्यर्थः । सानुः महाप्रस्थः प्रस्थः क्षुद्रतटः कन्दरः दरी तैः सह वर्तत इति ससानुप्रस्थकन्दर इत्यप्याहुः ॥ ३८ ॥ शङ्खदुन्दुभीत्यादिश्लोकद्वयम् । शङ्खदुन्दुभिसंघुष्टः शङ्खदुन्दुभिसङ्घोषयुक्तः । तरस्विनां बलवताम् । सिंहनादः गजबृंहितादिभिः सह पृथिव्यादिकं नादयन् अनादयत् ॥ ३९ ॥ ४० ॥ देवासुरे यथा देवासुरविरोधे देवानामसुराणामिवेत्यर्थः । यद्वा षष्ठीबहुवचनस्य वाद्यभाण्डमुखे जले " इत्यमरः । हेमकोणाहताः सुवर्णमयवादनदण्डाहताः || ३४-३६ ॥ सैन्याः “ सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते " इत्यमरः । | समये प्रलयकाले || ३७ ॥ ससानुप्रस्थकन्दरः सानुर्महाप्रस्थः, प्रस्थः क्षुद्रतटः । कन्दरः दरी ॥ ३८ ॥ नादयन, उदभूदिति शेषः ॥ ३९ ॥ गजानामित्यादि श्लोक द्वयमेकं वाक्यम् । एतस्मिन् समये गजानां बृंहितादिभिस्सह रक्षम वानराणां च पुरा देवासुराणां विरोधे सति यथा तथा घोरस्सङ्ग्रामः समपद्यतेति
For Private And Personal Use Only
टी. यु.का.
स० ४२
।। १३५॥