________________
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
Shn Mahavir Jain Aradhana Kendra
बा.रा.भ.
.य.
कृतानि । प्रमृजन्तः चूर्णयन्तः। आप्नुवन्तः पवन्तश्च गमनागमने कुर्वन्तः ॥ १८-२० ॥ इत्येवमिति । घोषयन्तः घुष्यन्तः। गर्जन्तः सिंहनाद कुर्वन्तः॥२१॥ वीरबाहुरित्यादिसाश्लोक एकान्वयः। एतस्मिन्नन्तरे प्रसिद्धाः वीरवाह्वादयः प्राकारं निपीब्योपनिविष्टाः सन्तः। स्कन्धावारस्य ।
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः। लङ्का तामभिधावन्ति महावारणसन्निभाः ॥ १९॥ जयत्यतिबलो रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभिपालितः ॥२०॥ इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवङ्गमाः। अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः ॥ २१॥ वीरबाहुः सुबाहुश्च नलश्च वनगोचरः । निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः। एतस्मिन्नन्तरे चक्रुः स्कन्धाबारनिवेशनम् ॥ २२॥ पूर्वद्वारं तु कुमुदः कोटीभिर्दशभिर्वृतः । आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः ॥२३॥ साहाय्याथै तु तस्यैव निविष्टः प्रघसो हरिः । पनसश्च महाबाहुर्वानरैर्बहुभिर्वृतः ॥ २४ ॥ दक्षिणं द्वारमागम्य वीरः शतवलिः कपिः। आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः ॥२५ ॥ सुषेणः पश्चिमद्वारं गतस्तारापिता हरिः। आवृत्य बलवांस्तस्थौ
षष्टिकोटिभिरावृतः ॥ २६ ॥ शिबिरस्य, निवेशनं निर्माणं चक्रुः। युद्धेऽन्तरान्तरा विश्रमार्थं वासस्थानं स्कन्धावारः । यदा व्यूहीभावेन सेनास्थापनं स्कन्धावारः॥ २२॥ निवेशनप्रकारमेवाह-पूर्वद्वारमित्यादिना । कुमुदः पूर्वद्वारमावृत्य तस्थौ । ईशानकोणे स्थित्वा पूर्वद्वारमाक्रम्य स्थितवानित्यर्थः॥ २३ ॥ २४ ॥ शतवलिः दक्षिणद्वारमावृत्य तस्थौ । आनेयकोणे स्थित्वा दक्षिणद्वारमाक्रम्य स्थितवानित्यर्थः ॥ २५ ॥ सुषेणः पश्चिमद्वारं गतः आवृत्य तस्थौ ।।
आप्तवन्तः समन्तात्प्लवन्तः । प्रवन्तः प्राकाराभिमुखं तवन्तः ॥ १९-२१ ॥ स्कन्धावारनिवेशनं स्कन्धावारस्य सेनानिवेशस्य निवेशनं व्यूहीभावेन स्थापनम् । ला॥२२॥ स्कन्धावारनिवेशप्रकारमाह-पूर्वद्वारमित्यादिना । कुमुदः पूर्वद्वारमावृत्य तस्थौ, ईशानकोणे स्थित्वा पूर्वद्वारमाक्रम्प स्थितवानित्यर्थः ॥ २५ ॥ २४ ॥ शतवलिदक्षिणद्वारमावृत्य तस्थौ आयकोणे स्थित्वा दक्षिणद्वारमाक्रम्य स्थितवानित्यर्थः ॥ २५ ॥ सुषेणः पश्चिमद्वारं प्राप्तः आवृत्य तस्थौ नेतकोणे स्थित्वा
॥१३४०
For Private And Personal Use Only