________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पीड्यमानां, राक्षसीभिरिति शेषः । धर्मात्मेत्यनेन दयालुत्वमुच्यते ॥ ९॥ वचने आज्ञापनरूपे । सकर्षमाणाः स्पर्धमानाः। अनादयन् लवामिति शेषः ॥१०॥ विकिराम चूर्णयाम। मनांसि दधिरे निश्चयं चकुरित्यर्थः ॥११॥शिखराणि पर्वतखण्डान् । 'शिखरं शैलखण्डकम्' इति सहकारः तिष्ठन्ति अतिष्ठन् ॥ १२ ॥ प्रेक्षतः प्रेक्षमाणमनादृत्य तान्यनीकानि वानरानीकानि । भागशः स्वस्वनियुक्तप्रदेशे । लङ्का लाप्राकारम् । राघवप्रिय पीड्यमानां स धर्मात्मा वैदेहीमनुचिन्तयन् । क्षिप्रमाज्ञापयामास वानरान् द्विषतां वधे ॥ ९॥ एवमुक्ते तु वचने रामेणाक्लिष्टकर्मणा । सङ्घर्षमाणाः प्लवगाः सिंहनादैरनादयन् ॥१०॥ शिखरैर्विकिरामैना लङ्का मुष्टिभिरेव वा । इति स्म दधिरे सर्वे मनांसि हरियूथपाः॥११॥ उद्यम्य गिरिशृङ्गाणि शिखराणि महान्ति च । तरूंश्चो त्पाट्य विविधास्तिष्ठन्ति हरियूथपाः ॥ १२॥ प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः । राघवप्रियकामार्थ लङ्कामारुरुहुस्तदा ॥१३॥ ते ताम्रवक्रा हेमामा रामार्थे त्यक्तजीविताः। लङ्कामेवाभ्यवर्तन्त सालतालशिलायुधाः ॥१४॥ते दुमैः पर्वतायैश्च मुष्टिभिश्च प्लवङ्गमाः। प्राकाराग्राण्यरण्यानि ममन्थुस्तोरणानि च ॥ १५॥ परिखाः पूरयन्ति स्म प्रसन्नसलिलायुताः। पांसुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः ॥ १६ ॥ ततः सहस्रयूथाश्च कोटी यूथाश्च वानराः। कोटीशतयुताश्चान्ये लङ्कामारुरुहुस्तदा ॥ १७॥ काञ्चनानि प्रमृदन्तस्तोरणानि प्लवङ्गमाः ।
कैलासशिखरामाणि गोपुराणि प्रमथ्य च ॥ १८॥ कामार्थ रामप्रीतिसिद्धयर्थमित्यर्थः ॥ १३॥ त्यक्तजीविताः “आशंसायां भूतवच्च" इति क्तः ॥ १४ ॥ अरण्यानि उद्यानानि । तोरणानि बदि
राणि । ममन्थुः बभचरित्यर्थः॥ १५॥ १६॥ कोटीशतयुताः कोटीशतयूथयुताः॥ १७॥ काञ्चनानीत्यादिशोकदयम् । काञ्चनानि काञ्चन मत्रिमिकम् । शोकसन्तप्ताऽपि पीढपते मदर्थ रामस्य महान केशो जायत इति खिन्ना भवतीत्यर्थः ॥ ८॥९॥ सङ्कर्षमाणाः अने भवितुं परस्परं स्पर्धमानाः ॥१०॥ विकिराम विदारयाम ॥११॥ शिखराणि पर्वतखण्हान " शृङ्गं स्यात्पर्वतस्यायं शिखरं खण्डशैलकम्" इति यादवः ॥ १२॥ राघवप्रियकामार्य त्रियविषयः कामो मनोरथः तत्सिद्धचर्थम्, राघवस्य प्रियविषयमनोरथसिद्धये इत्यर्थः ॥ १३-१८ ॥
For Private And Personal Use Only