________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
भा.रा.भू. लहाहेत्यर्धम् ॥ ९८॥ तस्मिन्निति । स्पष्टः॥९॥ इति श्रीगोविन्द श्रीरामायण रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकचत्वारिंशः सर्गः॥४१॥N टी.यु.को
अथ युद्धारम्भो द्विचत्वारिंशे-तत इति । तत्र तस्मिन् काले ॥ १ ॥ विधानं रक्षणविधिम् । द्विगुणं पूर्वस्मादधिकम् ॥२॥ स इति । हाहाकारं प्रकुर्वन्ति राक्षसा भयमोहिताः ॥ ९८॥ तस्मिन् महाभीषणके प्रवृत्ते कोलाहले राक्षसराजधान्याम् । प्रगृह्य रक्षांसि महायुधानि युगान्तवाता इव संविचेरुः॥९९॥ इत्याचे श्रीमद्युद्धकाण्डे एकचत्वारिंशः सर्गः॥४॥ ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम् । न्यवेदयन् पुरी रुद्धा रामेण सह वानरैः॥१॥रुद्धा तु नगरीं श्रुत्वा जातक्रोधो निशाचरः। विधानं द्विगुणं कृत्वा प्रासादं सोऽध्यरोहत ॥२॥ स ददर्शावृतां लङ्का सशैलवनकान नाम् । असङ्खयेयैर्हरिगणैः सर्वतो युद्धकाइक्षिभिः ॥३॥ स दृष्ट्वा वानरैः सर्वी वसुधां कवलीकृताम् । कथं क्षपयि तव्याः स्युरिति चिन्तापरोऽभवत् ॥ ४॥ स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः । राघवं हरियूथांश्च ददर्शा यतलोचनः॥५॥राघवः सह सैन्येन मुदितो नाम पुप्लुवे । लङ्कां ददर्श गुप्तां वै सर्वतो राक्षसैर्वताम् ॥ ६ ॥ दृष्ट्वा दाशरथिर्लङ्क चित्रध्वजपताकिनीम् । जगाम सहसा सीतां दूयमानेन चेतसा ॥ ७॥ अत्र सा मृगशावाक्षी
मत्कृते जनकात्मजा । पीड्यते शोकसन्तप्ता कृशा स्थण्डिलशायिनी ॥८॥ सर्वत आवृतामित्यन्वयः ॥ ३ ॥ कवलीकृताम् आच्छादितम् । कपिलीकृतामिति पाठे-वानरवणेन कपिलीकृताम् । शपयितव्याः नाशयि तव्याः, एत इति शेषः॥ ४॥ आयतलोचन इत्यनेन विस्मयातिशय उच्यते ॥५॥ पुप्लुवे नाम पूर्वस्थानात् प्राकारसन्निकृष्टं प्रदेश प्राप्त इत्यर्थः। ॥६॥ दूयमानेनेति । सीता स्मृत्वा दुखितोऽभूदित्यर्थः ॥७॥ मृगशावाक्षीत्यनेन शोकानईत्वमुच्यते । स्थण्डिलशायिनी भूतलशायिनी ॥ ८॥ पदातयस्तत्सङ्ख्या वानरा इत्यर्थः । शतशब्दोऽनन्तवाची । सागरं चाभिवर्तता सागरपर्यन्तममिव्याप्प वर्तमानानामित्यर्थः ॥९५-९९ ॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायण. युद्धकाण्ड एकचत्वारिंशः सर्गः॥४१॥ १॥ रुद्रामिति । विधानं दुर्गसंरक्षणम् ॥ २॥ ३ ॥ कपिलीकृताम् कपिलवर्णसह शी| कृताम् ॥ ४ ॥५॥ पुप्लुवे वेगेन प्राकारसमीपं प्राप्त इत्यर्थः ॥ ६॥ दूयमानेन सन्तप्यमानेन चेतसा उपलक्षितः । मनसा जगाम सस्मारेत्यर्थः ॥ ७॥ मत्कृते।
For Private And Personal Use Only