________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
विश्राव्य विशेषेण श्रावयित्वा ॥ ८९ ॥ ९०॥ प्रासादधर्षणात् प्रासादभञ्जनात् । पश्यन् तर्कयन् । निश्वासपरमः आधिकनिश्वासः॥९॥ राम इति । अङ्गदागमनं, दृष्ट्वेति शेषः॥ ९२ ॥ संवृतः, बभूवेति शेषः । उत्तरश्चोकेनकवाक्यत्वे हरिकपिशब्दयोः पौनरुक्त्यं स्यात् ॥ ९३॥ न्यूनताव्यावृत्त्यर्थ सर्वाणीत्युक्तम् । कपिः सुषेणः । पर्यकामत परितश्वचार । नक्षत्राणि नक्षत्रनिरूपितराशीनित्यर्थः ॥ ९४ ॥ तेषामित्यादि । अक्षौहिणिशतमित्यत्र भक्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः । विनद्य सुमहानादमुत्पपात विहायसम् ॥ ८९॥ व्यथयन् राक्षसान् सर्वान् हर्षयंश्चापि वानरान् । स वानराणां मध्ये तु रामपार्श्वमुपागतः ॥९०॥ रावणस्तु परं चक्रे क्रोधं प्रासादधर्षणात् । विनाशं चात्मनः पश्यन्निश्वासपरमोऽभवत् ॥ ९१ ॥ रामस्तु बहुभिहृष्टैर्निनदद्भिः प्लवङ्गमैः । वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत ॥ ९२॥ सुषेणस्तु महावीर्यों गिरिकूटोपमो हरिः। बहुभिः संवृतस्तत्र वानरैः कामरूपिभिः ॥९३॥ चतुर्दाराणि सर्वाणि सुग्रीववचनात् कपिः । पर्यक्रामत दुर्धर्षो नक्षत्राणीव चन्द्रमाः॥ ९४ ॥ तेषामक्षौहिणिशतं समवेक्ष्य वनौकसाम् । लङ्कामुपनिविष्टानां सागरं चाभिवर्तताम् ॥ ९५॥ राक्षसा विस्मयं जग्मुखासं जग्मुस्तथाऽपरे । अपरे समरोद्धर्षाद्धर्षमेव प्रपेदिरे ॥ ९६ ॥ कृत्स्नं हि कपिभिर्याप्त प्राकारपरिखान्तरम् । ददृश राक्षसादीनाः प्राकारं वानरीकृतम् ॥ ९७ ॥ “ड्यापोः संज्ञाछन्दसोर्बहुलम्" इति ह्रस्वः । अनेकाक्षौहिणीमित्यर्थः । सागरं चाभिवर्तता सागरसमीपे वर्तमानानामित्यर्थः ॥ ९५ ॥ राक्षसाः, धीरा इति शेषः । अपरे अधीरा इत्यर्थः । उदात् गर्वात् ॥९६॥कृत्स्नमिति । हरिभियाप्तं प्राकारपरिखान्तरं प्राकारपारिखयोरेन्तरालम् । वानरी कृतं वानरप्रचुरतया कृतम्, अपरमिव प्राकारं ददृशुरित्यर्थः ॥ ९७ ॥ पश्यन् एकोऽपि समनं मम बलं पराभूय निर्भयं गच्छति । एवंविधेष्यनेकेषु मन्नाशोद्यतेषु कथं जीवनमिति पर्यालोचयन्नित्यर्थः ॥ ९१-९३ ॥ पर्यक्रामत सर्व बलरक्षार्थ सर्वद्वारवृत्तान्तग्रहणार्थ च परितश्चचार ॥ ९४ ॥ अक्षोहिणिशतम् “अक्षाहिन्याम्-" इति वृद्धिः । आर्यों हस्तः । यावन्तोऽक्षौहिण्यां गजाश्वरथ
For Private And Personal Use Only