________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
ठी.पु.की.
मा.रा.भू. हन्तति, अहमिति शेषः । निरुदिनाः निर्भयाः ॥७८॥ उद्धरिष्यामि उन्मूलयिष्यामि । कण्टकं बाधकमित्यर्थः।। ९॥८०॥ आपनः प्राप्तः बभूव ॥८॥ PRIMदुर्मेधाः दुर्बुद्धिः, न दूतो वध्य इति शास्त्रानभिज्ञ इत्यर्थः । असकृच्छशासेत्यन्वयः । यद्वा दुर्मेधा इत्यङ्गदमेवाह ॥ ८२ ॥ ८३॥ यातुधानगणे विषये
हन्तास्मि त्वांसहामात्यं सपुत्रज्ञातिबान्धवम् । निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि ॥ ७८ ॥ देवदानव यक्षाणां गन्धर्वोरंगरक्षसाम् । शत्रुमद्योद्धरिष्यामि त्वामृषीणां च कण्टकम् ॥ ७९ ॥ विभीषणस्य चैश्वर्य भवि ध्यति हते त्वयि । न चेत् सत्कृत्य वैदेही प्रणिपत्य प्रदास्यसि ॥ ८०॥ इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुङ्गवे । अमर्षवशमापन्नो निशाचरगणेश्वरः॥ ८१ ॥ ततः स रोषताम्राक्षः शशास सचिवांस्तदा । गृह्यतामेष दुर्मेधा वध्यतामिति चासकृत् ॥ ८२॥ रावणस्य वचः श्रुत्वा दीप्तानिसमतेजसः । जगृहुस्तं ततो घोराश्चत्वारो रजनी चराः ॥ ८३ ॥ ग्राहयामास तारेयः स्वयमात्मानमात्मवान् । बलं दर्शयितुं वीरो यातुधानगणे तदा ॥ ८४ ॥ स तान् बाहुद्वये सक्तानादाय पतगानिव । प्रासादं शैलसङ्काशमुत्पपाताङ्गदस्तदा ॥ ८५॥ तेऽन्तरिक्षाद्विनिर्धूता स्तस्य वेगेन राक्षसाः। भूमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः ॥८६॥ ततः प्रासादशिखर शैलशृङ्ग मिवोन्नतम् । ददर्श राक्षसेन्द्रस्य वालिपुत्रः प्रतापवान् ॥ ८७ ॥ तत्पफाल पदाकान्तं दशग्रीवस्य पश्यतः। पुरा
हिमवतः शृङ्गं वचिणेव विदारितम् ॥ ८८॥ स्वबलं दर्शयितुम् । आत्मवान् धृतिमान् । स्वयम् आत्मानं ग्राहयामास ग्रहीतुमनुमेने ॥ ८४-८७॥ पफाल व्यशीर्यत ॥ ८८॥ निरुद्विमाः निर्भयाः ॥ ७८ ॥ ७९ ॥ सत्कृत्य प्रणिपत्य, मामिति शेषः । वैदेही न प्रदास्यसि चेत् त्वयि हते विभीषणस्यैश्वर्य भविष्यतीति योजना । वैदेहीं न प्रदास्यसि चेत्त्वां हत्वा विभीषणाय राज्यं दास्यामीत्यर्थः ॥ ८०-८६ ॥ प्रासादशिखरं, ददर्शति शेषः । दृष्ट्वा तच्चक्राम पदाक्रान्तबान । चकाम राक्षसेन्द्रस्य इति पाठः ॥ ७ ॥ तदाक्रान्तं च प्रासादशिखरं पफाल शतधा विशीर्णमभूत् ।। ८०-९०॥
१३२॥
For Private And Personal Use Only