SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir युद्धयस्वेति । शान्तः मृतः। पूत इति । युद्ध अपरावृत्त्या मृतेः सर्वपापप्रायश्चित्तत्वादिति भावः ॥ ६९ ॥ ७० ॥ कियतामौर्षदेहिकमिति । अराक्षसकरणेन श्राद्धकर्वभावात्स्वयमेव जीवच्छ्राद्धं कुर्वित्यर्थः । सुदृष्टेति । म्रियमाणा हि चापलेन पुत्रकलबादिमुखदर्शनं कुर्वन्ति तद्वादिति भावः ।। मयि स्थितं मदायत्तम्, अवश्यं त्वां नाशयामीत्यर्थः ॥ ७१ ॥ मूर्तिमान करचरणादिसंस्थानवान् । हव्यवाद आमिः ॥ ७२ ॥ अतिपत्य । ब्रवीमि त्वां हितं वाक्यं क्रियतामौलदैहिकम् । सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम् ॥ ७१॥ इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा । जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट् ॥ ७२ ॥ सोऽतिपत्य मुहूर्तेन श्रीमानरावणमन्दिरम् । ददर्शासीनमव्यग्रं रावणं सचिवैः सह ॥७३॥ ततस्तस्याविदूरेस निपत्य हरिपुङ्गवः । दीप्ताग्निसदृशस्तस्थावङ्गदः कनकानन्दः ॥ ७४ ॥ तद्रामवचनं सर्वमन्यूनाधिकमुत्तमम् । सामात्यं श्रावयामास निवेद्यात्मानमात्मना ॥ ७५॥ दूतोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः। वालिपुत्रोऽङ्गदो नाम यदि ते श्रोत्र मागतः ॥ ७६ ॥ आह त्वां राघवो रामः कौसल्यानन्दवर्धनः । निष्पत्य प्रतियुद्धयस्व नृशंस पुरुषो भव ॥७७॥ प्राप्य । अव्यग्रं ददर्शेत्यन्वयः । श्रीमानित्यनेन हर्षवत्त्वमुच्यते ॥ ७३ ॥ ७४ ॥ तदिति । उत्तम पथ्यम् । सामात्यं, रावणमिति शेषः । आत्मना स्वयम् । आत्मानं निवेद्य आत्मनो वालिपुत्रत्वादिनिवेदनपूर्वकं रामवचनं कथयामासेत्यर्थः ॥ ७९ ॥ दूत इति । यदि ते श्रोत्रमागतः, मां श्रुतवानसि किमित्यर्थः ॥७६॥ आह त्वामिति । राघव इत्यादिना छद्मना न योत्स्यत इत्युक्तम् । कौसल्यानन्दवर्धन इत्यनेन बहुतपःप्रभावजनिततया| धार्मिकत्वमुक्तम् । निष्पत्य पुरान्निर्गत्य। पुरुषो भव शूरो भवेत्यर्थः। पुरुषाधमेति पाठे-पुरोपरोऽप्यानगमने नूनं पुरुषाधम एवासीति भावः॥७७॥ सुदृष्टा क्रियताम्, दुर्गसंरक्षणादिभिरिति शेषः ॥ ७१ ॥ मूर्तिमान हव्यवाद, वानरवेषोऽग्निरित्यर्थः ॥ ७२ ॥ अतिपत्य अतिक्रम्य, मार्गमिति शेषः ॥ ७३ ॥ ७॥ तद्रामवचन मिति संक्षेपकथनं वक्ष्यमाणस्य ॥ ७५॥ तस्यैव प्रपञ्चः-दूतोऽहमिति । यदीत्यसन्दिग्धे सन्दिग्धवचनं वेदाः प्रमाणं चेदितिवव । श्रोत्रमागत पव, एतेन स्वस्य स्वीयानां च बलादि तुभ्यं न वाच्यमेव, त्वया ज्ञातत्वादिति भावः ॥ ७६ ॥ निष्पत्य पुराद्विनिष्क्रम्य । पुरुषो भव शरो भव ॥७॥ Vा सा-और्वदेहिकं मृत्यनन्तरं लोकान्तरे सुखप्रापर्क दानादिकं क्रियताम् । अनुशतिकादित्वादुभयपदद्धिः । अनेन पुत्रा अव्यसन्त इति सर्वनाश कर्ता कोऽपि न जीविष्पत्तीति योत्पते । “प्रियदर प्रियं भवेत् " ति दशरथोक्तविभीषणेन कृतं सदपि तव सम्मतं न भवेदिस्येवमुक्तिः ॥ १ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy