________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
हे सौम्य 1 गतव्यथः गतश्रमः सन् । लङ्का पुरी तत्प्राकारं लक्षयित्वा भयं त्यक्त्वा दशग्रीवं मद्वचनात् बहि, मयोक्तमिति बहीत्यर्थः । कपे इत्यनेन । लनसामर्थ्य द्योतयति ॥ ६॥ भ्रष्टश्रीक भ्रष्टप्रायद्रविण ! गतैश्वर्य गतप्रायनियन्तृत्व । सम्पदि भ्रष्टायामपि लोके नियन्तृत्व सम्भवति तदपि । नास्तीत्यर्थः । तदुभयाभावपि जीवनाशासम्भवति सापि नास्तीत्याह मुमूर्षों इति। तदानीमपि ज्ञानं संभवति तदपि नास्तीत्याह नष्टचेतनेति ॥६॥
गत्वा सौम्य दशग्रीवं ब्रूहि मद्वचनात् कपे। लवयित्वा पुरीं लङ्का भयं त्यक्त्वा गतव्यथः ॥६० ॥ भ्रष्टश्रीक गतैश्वर्य मुमूर्षो नष्टचेतन । ऋषीणां देवतानां च गन्धर्वाप्सरसा तथा ॥६१ ॥ नागानामथ यक्षाणां राज्ञां च रजनीचर। यच्च पापं कृतं मोहादवलिप्तेन राक्षस ॥[तस्य पापस्य सम्प्राप्ता व्युष्टिरद्य दुरासदा]॥६२॥ नूनमद्य गतो दर्पः स्वयम्भूवरदानजः । यस्य दण्डधरस्तेऽहं दाराहरणकर्शितः । दण्डं धारयमाणस्तु लङ्काद्वारे व्यव स्थितः ॥ ६३ ॥ पदवी देवतानां च महर्षीणां च राक्षस । राजर्षीणां च सर्वेषां गमिष्यसि मया हतः ॥ ६४॥
बलेन येन वै सीतां मायया राक्षसाधम । मामतिकामायित्वा त्वं हृतवास्तनिदर्शय ॥६५॥ नागानां साणाम् । अवलिप्तेन गर्वितेन त्वया ऋषिप्रमुखानां यत्पापं कृतं यो द्रोहः कृतः। तस्य कारणभूतः स्वयंभूवरदानजो दो गतः गत प्राय इत्यन्वयः । तत्र हेतुमाह यस्येति । दण्डधरः नियन्ता अहं यस्य ते दण्डं धारयमाणः करिष्यमाण इत्यर्थः ॥ १२॥ ६३ ॥ एवंविधस्य । नियमने तब किं भविष्यतीत्यत्राह-पदवीमिति । पदवीं तेषु कृतं परिभवं तमपि गमिष्यसीत्यर्थः । यद्वा पदवीं लोकम् । युद्धे स्थितः सन् तेषां ।
लोकं गमिष्यसि । युद्ध स्थित्वा सर्वपापविशुद्धः सन् गतिं गमिष्यसि । ततस्तूर्णमागच्छति भावः॥ ६४॥ मायया मारीचमायया। माम् अतिकाम दायित्वा अपवाह्य । ल्यवभाव आपः । येन बलेन यदलमवलम्ब्य सीतां हृतवानसि तदलं निदर्शयेत्यन्वयः ॥६५॥ गतव्ययः गतश्रमः ॥६०॥ नागानामित्यादिसार्धश्लोक एक वाक्यम् । हे रजनीचर ! नागानो यक्षाणां च अवलिप्तेन त्वया यच्च पापं कृतं यो द्रोहः कृतः, तस्य | कारणभूता स्वयम्भूवरदानजो यो दर्पः अद्य गत इति योजना । तत्र हेतुमाह यस्येति । यस्य ते तव वण्डं धारयमाणः करिष्यमाणः लाद्वारे व्यवस्थित इति सम्बन्धः ॥ ६१-६३ ॥ पवंविधस्य मम नियमने तब कि भविष्यतीत्यत्राह-पदवीमिति । युद्धे स्थितस्सन देवतादीनां पदवीं पुण्यलोकं गमिष्यसीति सम्बन्धी
For Private And Personal Use Only