________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.मू. १२२९॥
टी.यु,को. स. ४१
विन्यस्तानि, द्वारोपान्तवेदिकादिष्विति शेषः ॥ ३६॥ मैन्देन द्विविदेन चेत्यादिना प्रतिद्वारमधिकयूथपतिगमनस्यात्रोक्तत्वात् पूर्व रामेण ते नियुक्ताः इति ज्ञेयम् ॥ ३७-३९ ॥ मध्यम इति । दुर्जयरावणेन्द्रजिदपिष्टितयोरुत्तरपश्चिमद्वारयोर्मध्ये तदुभयद्वारनिरोधकानां काकाक्षिन्यायेन साहाय्यं कर्तुं सुग्रीवः स्वयमतिष्ठदिति ज्ञेयम् । “पश्चिमेन तु रामस्य सुग्रीवः सहजाम्बवान् । अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः॥” इति वक्ष्यमाणत्वात् ।। विन्यस्तानि च योधानां बहूनि विविधानि च । ददर्शायुधजालानि तत्रैव कवचानि च ॥ ३६॥ पूर्व तुद्वारमासाद्य नीलो हरिचमूपतिः। अतिष्ठत् सह मैन्देन दिविदेन च वीर्यवान् ॥३७॥ अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः। ऋषभेण गवाक्षेण गजेन गवयेन च ॥३८॥ हनुमान पश्चिमद्रारं ररक्ष बलवान कपिः। प्रमाथिप्रघसाभ्यां च वीरैरन्यैश्च सङ्गतः ॥ ३९॥ मध्यमे च स्वयं गुल्मे सुग्रीवः समतिष्ठत । सह सर्वेर्हरि श्रेष्ठैः सुपर्णश्वसनोपमैः ॥४०॥ वानराणां तु पत्रिंशत् कोटयः प्रख्यातयूथमाः । निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः ॥४१॥ शासनेन तु रामस्य लक्ष्मणः सविभीषणः। द्वारे द्वारे हरीणां तु कोटि कोटि न्यवेशयत् ॥४२॥ पश्चिमेन तु रामस्य सुग्रीवः सहजाम्बवान् । अदूरान्मध्यमे गुल्पे तस्थौ बहुबलानुगः॥४३॥ ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः । गृहीत्वा दुमशैलाग्रान हृष्टा युद्धाय तस्थिरे ॥ १४ ॥ सर्वे विकृतलाशूलाः सर्वे दंष्ट्रानखायुधाः ।
सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः ॥४५॥ सुपर्णः गरुडः ॥ ४०-४३ ॥ वानरशार्दूलाः वानरश्रेष्ठाः । शैलायानिति पुंस्त्वमार्षम् ॥ ४४ ॥ विकृतलाशूलाः ऊर्ध्वं प्रसारितपुच्छाः । विकृत । विन्यस्तानि, प्राकारोपरिप्रदेशेष्विति शेषः ।। ३६--३९ ॥ मध्यमे गुल्म इति । अतिदुर्जयरावणेन्द्रजिदधिष्ठितयारुत्तरपश्चिमद्वारयोर्मध्ये वायुदिशि तदुभयद्वार निरोधकाना काकाक्षिन्यायेन साहाय्यं कर्तुं सुग्रीवः स्वयं समतिष्ठतेत्यर्थः ॥ १० ॥ प्रख्यातयूथपाः पत्रिंशत्कोटयः । अप्रख्याताना यूथपाना तत्सेनाना च गणनाभाव इति भावः ॥४१॥ ४२ ॥ अदूरात्पश्चिमेन आसन्नपृष्ठभागावष्टम्भन ॥ ४३-४५ ॥
॥१९॥
For Private And Personal Use Only