SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir पृतना सेना ॥ २७ ॥ कुञ्जरप्रख्याः गजतुल्याः । परवारणाः शत्रुवारकाः ॥ २८ ॥ २९ ॥ पताकेत्यादिश्लोकद्वयम् । पताकमालिनीमित्यत्र 'ङयापोः संज्ञाछन्दसोर्बहुलम् " इति ह्रस्वः । उद्यानं कृत्रिमवनम् । चित्रवप्रां चित्रचयाम् । यथानिवेशं यथास्थानम्, रामवचोऽन्यूनं स्वं स्वं ततः पश्चात् सुमहती पृतनर्क्षवनौकसाम् । प्रच्छाद्य महतीं भूमिमनुयाति स्म राघवम् ॥ २७ ॥ शैलशृङ्गाणि शतशः प्रवृद्धश्च महीरुहान् । जगृहुः कुञ्जरप्रख्या वानराः परवारणाः ॥ २८ ॥ तौ तु दीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ । रावणस्य पुरीं लङ्कामासेदतुररिन्दमौ ॥ २९ ॥ पताकमालिनीं रम्यामुद्यानवनशोभिताम् । चित्रवप्रां सुदुष्प्रापामुच्चैःप्राकारतोरणाम् ॥ ३० ॥ तां सुरैरपि दुर्धर्षी रामवाक्यप्रचोदिताः । यथानिवेशं सम्पीडय न्यविशन्त वनौकसः ॥ ३१ ॥ लङ्कायास्तूत्तरद्वारं शैलशृङ्गमिवोन्नतम् । रामः सहानुजो धन्वी जुगोप च रुरोध च ॥ ३२ ॥ लङ्कामुपनिविष्टश्च रामो दशरथात्मजः । लक्ष्मणानु वरो वीरः पुरीं रावणपालिताम् । उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः ॥ ३३ ॥ नान्यो रामाद्धि तद्दारं समर्थः परिरक्षितुम् । रावणाधिष्ठितं भीमं वरुणेनेव सागरम् ॥ ३४ ॥ सायुधै राक्षसैर्भीमैरभिगुप्तं समन्ततः । लघूनां त्रासजननं पातालनिव दानवैः ॥ ३५ ॥ स्थानमनतिक्रम्येत्यर्थः । संपीड्य उपरुध्य ॥ ३० ॥ ३१ ॥ जुगोप परपरिभवादात्मीयं बलं ररक्षेत्यर्थः । रुरोधेत्यनेन ' शिखरं तत्रिकूटस्य प्रांशु चैकं दिविस्पृशम् ' इत्युक्तत्रिकूटशिखरारोहणमर्थसिद्धम् || ३२ ॥ लङ्कामित्यादिसार्द्ध श्लोक एकान्वयः । लक्ष्मणानुचरो वीर इति पाठः । रावणो यत्र तिष्ठति तदुत्तरद्वारमासाद्य लङ्कामुपनिविष्ट इत्यन्वयः ॥ ३३ ॥ रामानु० - लक्ष्मणानुचरो राम इति पाठे रमयतीति व्युत्पत्या रामविशेषणम् ॥ ३३ ॥ रामणैव निरोद्धव्यत्वे हेतुमाह - नान्य इत्यादिश्वोकद्वयेन । लघूनाम् अल्पसाराणाम् || ३४ ॥ ३५ ॥ ऋक्षवनौकसां पृतना ॥ २७-३० ॥ यथानिवेशं रामनिदेशमनतिक्रम्य । सम्पीडय लङ्कां रुद्ध्वा ॥ ३१ ॥ उत्तरद्वारं रुरोध । जुगोप, आत्मीयवलामेति शेषः ३२-३४ ॥ तद्वारं तद्वाररोधिकां सेनाम् । लघुनाम् अधीराणाम् ॥ ३५ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy