________________
Acharya Shri Kalasagasun La
www.kobaith.org
Shri Maa
Jain Aradhana Kendra
दिति भावः । महाबलेत्यनन्तरमितिकरणस्यान्वयः ॥ ७॥ तमेवमित्यादिसाघचोकः । पौरुषं त्वदास्यरूपं पुरुषधर्ममित्यर्थः । अत एव हि पूर्व या रावणान्तिके दासोस्मीत्युक्तवान् । जानन्नित्यनेन दासस्य कमैवेदं न तु साइसमित्युच्यते ॥ ८॥९॥ अथ रामस्योत्साहविशेष दर्शयति-इत्येवमिति ।। लक्ष्मिसम्पन्नमित्यत्र "इको ह्रस्वोऽङयो गालवस्य" इति ह्रस्वः । लक्ष्मीरत्र निमित्तदर्शनजः सन्तोषः॥१०॥परिगृह्योति । संविभज्य तत्तयूथपा। तमेवंवादिनं रामं सुग्रीवः प्रत्यभाषत ॥ ८॥ तव भार्यापहर्तारं दृष्ट्वा राघव रावणम् । मर्षयामि कथं वीर जानन् पौरुषमात्मनः॥९॥ इत्येवंवादिनं वीरमभिनन्द्य स राघवः । लक्ष्मणं लक्ष्मिसम्पन्नमिदं वचनमब्रवीत् ॥१०॥ परिगृह्योदकं शीतं वनानि फलवन्ति च । बलौघं संविभज्यमं व्यूह्य तिष्ठेम लक्ष्मण ॥११॥ लोकक्षयकर भीमं भयं पश्याम्युपस्थितम् । निबर्हणं प्रवीराणामृक्षवानररक्षसाम् ॥ १२॥ वाताश्च परुषा वान्ति कम्पते च वसुन्धरा । पर्वताग्राणि वेपन्ते पतन्ति धरणीरुहाः॥ १३॥ मेघाःक्रव्यादसङ्काशाः परुषाः परुषस्वनाः। क्रूराः क्रूरं प्रवन्ति मिश्र शोणितबिन्दुभिः ॥१४॥ रक्तचन्दनसङ्काशा सन्ध्या परमदारुणा । ज्वलच्च निपतत्येतदादित्यादग्नि मण्डलम् ॥ १५॥ आदित्यमभिवाश्यन्ति जनयन्तो महद्भयम् । दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः
॥ १६ ॥ रजन्यामप्रकाशश्च सन्तापयति चन्द्रमाः। कृष्णरक्तान्तपर्यन्तो यथा लोकस्य संक्षये ॥ १७॥ धीनं कृत्वा । व्यूह्य गरुडादिरूपेण स्थापयित्वा ॥ ११॥ लोकक्षयकरं लोकक्षयमूचकम् । भीमं भयंकरम् । भयं भयनिमित्तम् । न केवलं लोकस्य, प्रवीराणां चेत्याह-निबर्हणमिति । विनाशसूचकमित्यर्थः ।। १२ ।। तदेव भयनिमित्तं प्रपञ्चयति-वाता इति । पतन्ति, अनिमित्तामति शेषः ॥ १३ ॥ कव्यादसङ्काशाः इयेनादिसदृशसंस्थानाः। परुषाः क्रूरवेषाः । क्रूराः लोकक्षयसूचकाः । मिश्र, जलमिति शेषः॥ १४॥ १५ ॥ आदित्यमभि आदि । त्याभिमुखम् । दीनाः दीनवेषाः। दीनस्वराः दैन्यसूचकस्वरवन्तः। अत एव घोराः भयङ्कराः। अप्रशस्ताः हीनाः शिवादयः॥१६॥ कृष्णरक्तान्त जानन्विक्रममात्मनः स्वस्थ परपराक्रमसंहारसामर्थ्य जानन स्वानुभवेनावगच्छन् कथं मर्पयामि ॥९॥ अभिनन्द्य सौहदस्यातिवलसम्पत्तेरिदमेव युक्तमिति श्लाघां कृत्वेत्यर्थः ॥ १०॥ शीतमुदकम्, तद्वतो जलाशयान ॥ ११-१८ ॥
For Private And Personal Use Only