________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyanmandir
मा.रा. १९२क्षा
ध अथ लङ्कावरोध एकचत्वारिंशे-अथेति । तस्मिन्सुग्रीवे । निमित्तानि युद्धचिह्नानि । “निमित्तं हेतुलक्ष्मणोः" इत्यमरः ॥ ३॥ असंमध्येति । जनेश्वराः ।
टी.यु.का. राजानः । न कुर्वन्ति अस्मादृशपरिजने विद्यमाने न कुर्वन्तीत्यादरोक्तिः॥२॥ संशये संशयपदे । त्वत्साहसेऽस्मदादीनां जीवनं दुर्लभमिति भावः ॥३॥ इदानीमित्यादि श्लोकद्रयम् । इदानीम् अद्यप्रभृति । अचिन्तितम् अविचारितम् । एवंविधं साहसं मा कृथाः। कुत इत्यवाद त्वयीति । त्वयि स०४१
अथ तस्मिन्निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः । सुग्रीवं सम्परिष्वज्य तदा वचनमब्रवीत् ॥ १॥ असंमन्त्र्य मया सार्द्ध तदिदं साहसं कृतम् । एवं साहसकर्माणि न कुर्वन्ति जनेश्वराः ॥२॥ संशये स्थाप्य मां चेदं बलं च सविभी षणम् । कष्टं कृतमिदं वीर साहसं साहसप्रिय ॥३॥ इदानी मा कृथा वीर एवंविधमचिन्तितम् । त्वयि किंचित् समापन्ने किं कार्य सीतया मम ॥४॥ भरतेन महाबाहोलक्ष्मणेन यवीयसा । शत्रुघ्नेन च शत्रुघ्न स्वशरीरेण वा पुनः ॥५॥ त्वयि चानागते पूर्वमिति मे निश्चिता मतिः । जानतश्चापि ते वीर्य महेन्द्रवरुणोपम ॥६॥ हत्वाऽहं रावणं युद्धे सपुत्रबलवाहनम् । अभिषिच्य च लङ्कायां विभीषणमथापि च । भरते राज्यमावेश्य त्यक्ष्ये देहं महाबल ॥७॥ किञ्चित्समापन्ने, वानरोति संबोधनं प्राप्ते मम सीतया कि कार्य किं प्रयोजनम् ? अभिनववत्सवात्सल्येन पूर्ववत्समनभिलपन्ती वत्सला गौरिख ।। नित्यानपायिनीमपि सीतामनादृत्य तदानीमाश्रिते वानरमात्रेऽत्यभिनिवेशं कुर्वतो रामस्य वात्सल्यातिशय उच्यते । सीतया "अों वा एप आत्मनो , यत्पत्री" इत्यर्धशरीरभूतया न मे किञ्चित्कार्यम् ॥ १॥ भरतेन यवीयसेति कनिष्टत्वमुच्यते । “भ्राता स्वा मूर्तिरात्मनः" इत्युक्तभरतादिनाऽपि न मे / किञ्चित्प्रयोजनम् । स्वशरीरेण वा, "आत्मानं सर्वथा रक्षेद्दारैरपि धनैरपि" इत्युक्तझरीरेण वा किं कियते ? ॥६॥ एतदेव प्रपञ्चयति-स्वयीत्यादिना। पूर्व त्वय्यनागते सति । इति वक्ष्यमाणप्रकारेण मे मतिः निश्चिता आसीत्। जानतश्चापीति विशेषणेन अस्थाने भयशङ्कित्वोत्या वात्सल्यातिशय उक्तः॥६॥ इतिशब्दार्थमाह-हवेति । प्रतिज्ञानिर्वाहार्थमिति भावः । अभिषिच्येति । अन्यथा शरणागतिवेफल्यादिति भवः । भरत इति । अन्यथा कुलधर्मोच्छेदा ॥१२॥ अथेति । तस्मिन् सुग्रीधे । निमित्तानि युद्धलक्षणानि दृष्ट्वा । " निमित्तं हेतुलक्ष्मणोः" इत्यमरः ॥ १ ॥२॥ संशये सन्देहपदे ॥३॥ इदानीमद्यप्रभृति । त्वाया किक्षित्समापन्ने हानि गते सतीत्यर्थः ॥४॥५॥ त्वयि अनागते रावणवधादिकं कृत्वा देहं त्यक्ष्य इति ते बीर्य जानतश्चापि मे मतिः पूर्व निश्चितेत्यन्वयः ॥६-८॥
For Private And Personal Use Only