________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्तन्निदर्शने नितान्तं ग्रन्थगौरवं स्यात् । अतस्तदुपेक्ष्यते ॥ २६ ॥ एतस्मिन्नित्यादिश्वोकद्वयमेकान्वयम् । अन्तरे अवकाशे । मायाबलं परितोऽनेक रावणप्रदर्शनम् । आरब्धुमुपसंपदे कर्तुमुपचक्रमे। तं मायोपक्रमम्। जितेन जयेन काशते प्रकाशत इति जितकाशी । रावणस्य मायाबलोपक्रम एव निर्मायं युद्धयमानस्य सुग्रीवस्य जय इति ज्ञेयम्। जितक्लमः जितश्रमः । वलिना चिरं मल्लयुद्धकरणादिति भावः । अत्र प्रासादे स्थित एव रावणो वञ्चितः
एतस्मिन्नन्तरे रक्षो मायावलमथात्मनः । आरब्धुमुपसम्पेदे ज्ञात्वा तं वानराधिपः ॥ २७ ॥ उत्पपात तदाऽऽकाशं जितकाशी जितक्लमः । रावणः स्थित एवात्र हरिराजेन वञ्चितः ॥ २८ ॥ अथ हरिवरनाथः प्राप्य सङ्ग्रामकीर्ति निशिचरपतिमाजौ योजयित्वा श्रमेण । गगनमतिविशालं लङ्घयित्वाऽर्कसूनुर्हरिवरगणमध्ये रामपार्श्व जगाम ॥ २९ ॥ इति स सविनुस्तत्र तत्कर्म कृत्वा पवनगतिरनीकं प्राविशत् सम्प्रहृष्टः । रघुवरनृपसूनोर्वर्धयन युद्धहर्ष तरुमृगगणमुख्यैः पूज्यमानो हरीन्द्रः ॥ ३० ॥ इत्यार्षे श्रीरामायणे • श्रीमद्युद्धकाण्डे चत्वारिंशः सर्गः ॥ ४० ॥ पुनरागमने प्रतारितः ॥ २७ ॥ २८ ॥ अथेति । हरिवरनाथः क्षणेन रावणहरणाईपरिकर नियन्ता । रामभक्तिरेव स्वयंगमनहेतुरिति भावः । प्राप्य सङ्ग्रामकीर्तिम् रामस्य युद्धादागतां कीर्ति स्वयमाजहारेति भावः ! निशिचरपतिम्, तत्सदृशेष्यनेकेषु विद्यमानेष्वपि तान् तृणीकृत्य तेनैव युद्धं | कृतवानिति भावः । आजौ, रावणवन च्छद्मना युद्धकृत् किन्तु मर्यादयेति भावः । योजयित्वा श्रमेण इतः पूर्व तदज्ञातेन श्रमेण योजयित्वा । योजन हि पूर्वमसम्भावितस्यैव रावणस्य श्रमफलम् । आत्मनस्तु कीर्तिरिति भावः । गगनमतिविशालं लङ्घयित्वाऽर्कसूनुः स्वस्यादित्य पुत्रत्वज्ञापनायाकाशमय नालयत् । अर्कसूनुः अज्ञातगमनवेगः । हरिवरगणमध्ये विनयेन स्वातिशयमप्रकाशयन् वानरध्वन्यतम इति स्थितः । रामपार्श्व जगाम रावणाशरो नादायागतोऽहं कथमस्याये तिष्ठेयमिति पार्श्वे स्थितः । निशिचरपतिं श्रमेण योजयित्वा जगमित्यनेन रामस्य प्रतिज्ञाहानिर्मा प्रसाक्षीदिति रावणमह त्वैवागत इति सूचितम् । मायाप्रयोगारम्भे समागमनं स्वेनापि मायाप्रयोगे रामस्य कोपः स्यादित्याश्यात् ॥ २९ ॥ इतीति । रघुवरनृपसूनोः रामस्य । तरुमृगगणमुख्यैः वानरगणमुख्यैः ॥ ३० ॥ इति श्रीगोविन्दराजविरचिते श्रीरामाय० रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चत्वारिंशः सर्गः ॥ ४० ॥ आरब्धुमुपसम्पत्रे कर्तुमुद्युक्तवान् ॥ २७-३०॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतन्य दीपिकाख्यायां युद्धकाण्डव्याख्यायां चत्वारिंशः सर्गः ॥ ४० ॥
For Private And Personal Use Only