SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org बा.रा.भू. स० ४० स्थानानि व्याघ्रसिंहादितुल्यावस्थानानि वैष्णवादिस्थानानि । पादयोः पूर्वापरतिर्यग्विक्षेपादिका विन्यासविशेषा इति यावत् । तदाह भरत:- "वैष्णवं टी. यु.फ. १२६॥ समपादं च वैशाखं मण्डलं तथा । प्रत्यालीढमथालीढं स्थानान्येतानि पण्नृणाम् ॥” इति । पञ्चेति धनुर्वेदे । एषां लक्षणादिकथने ग्रन्थगौरवं स्यादिति तन्नाद्रियते । गोमूत्रिकाणि गोमूत्र सरणिसदृशानि गमनानि । गोमूत्रशब्दात्तदाकारगमनवाचकान्मत्वर्थे उन्प्रत्ययः । गोमूत्रिकाणां चित्रत्वं गमना गमनादिभेदात् । गतप्रत्यागतानि उपसर्पणापसर्पणानि । एते उभयगतिप्रचारभेदाः || २३ || तिरश्श्रीनगतानि तिर्यग्गमनानि । वक्रगतानि सव्याप तिरश्चीनगतान्येव तथा वक्रगतानि च । परिमोक्षं प्रहाराणां वर्जनं परिधावनम् ॥ २४ ॥ अभिद्रवणमाप्लावमास्थानं च सविग्रहम् । परावृत्तमपावृत्तमवद्भुतमवप्लुतम् ॥ २५ ॥ उपन्यस्तपन्यस्तं युद्धमार्गविशारदौ । तौ सञ्चेरतुरन्योन्यं वानरेन्द्रश्च रावणः ॥ २६ ॥ Acharya Shri Kalassagarsuri Gyanmandir सव्यसञ्चरणानि । परिमोक्षं स्थानचालनेन प्रहाराणां मोघकरणम् । वर्जनं प्रतिप्रयोगेन परिहरणम् । परिधावनम् एकस्य तिष्ठतः समन्तादन्यस्य गम नागमनम् ॥ २४ ॥ अभिद्रवणम् आभिमुख्येन शीघ्रं गमनम् । आप्लावम् अल्पाङ्गत्वानल्पाङ्गत्वादिभिर्विनम्य गमनम् ईषद्गमनं वा मण्डूकवद गमनमित्यर्थः । आस्थानं च सविग्रहं विग्रहसहितमास्थानम् । विगृह्य केवलासनं प्रगृह्य निर्भयावस्थानमिति वाऽर्थः । परावृत्तं पराङ्मुखगमनम् । अपा वृत्तं स्थित्वैव पञ्चाञ्चलनम् । अवद्रुतं जिघृक्षया शरीरं सङ्कुच्यावनम्य गमनम् । अवप्लुतं प्रतियोधिनं पादेन प्रहर्तुमधोमुखेन लवनम् ॥ २५ ॥ उप न्यस्तं प्रतियोधिबाहुग्रहणार्थ स्वबाहुप्रसारणम् । अपन्यस्तं प्रतियोधिग्रहणवञ्चनार्थं स्वबाह्वोरपक्षेपणम् । एवं खड्गविद्या मल्लशास्त्रादिषूपदिश्यते पादयोः पूर्वापरविक्षेपादिविन्यासविशेषाः । तदुक्तं मरतेन" वैष्णवं समपादं च वैशाखं मण्डलं तथा । प्रत्यालीढमनाविद्धं स्थानान्येतानि पण्नृणाम् ॥” इति गोमूत्रिकाणि गोमूत्ररेखाकार कुटिलगमनविशेषान् । गतप्रत्यागतानि उपसर्पणापसर्पणानि ॥ २३ ॥ तिरश्रीनगतानि तिर्यग्गमनानि । वक्रगतानि सव्यापसव्य संचरणानि । परिमोक्षं प्रहाराणां परप्रयुक्तप्रहाराणां स्थान चलनादिना बित्तयीकरणम् । वर्जनं स्वमहारवैफल्यापादकस्थाने स्वकर्तृकमहारवर्जनम् । परिधावनम् ७ एकस्य तिष्ठतः समन्तादन्यस्य भ्रमणम् ॥ २४ ॥ अभिद्रवणम् आभिमुख्येन शीघ्रगमनम् । आप्लावमीषगमनम्, अवस्थानं कृत्वा गमनमिति यावत् आस्थानं च सविग्रहं विगृह्याभिमुख्येनावस्थानम् । परावृत्तं परामुखगमनम् । अपावृत्तं स्थित्वैव पार्श्वतोऽपसर्पणम् । अवद्रुतं जिवृक्षया झटिति स्त्रीभूय गमनम् । अवप्लुतं प्रतियोधिनं पादे महर्तुमधोमुखेन वनम् ॥ २५॥ उपन्यस्तं प्रतियोधिबाहुग्रहणार्थं स्वबाहुप्रसारणम् । अपन्यस्तं प्रतियोधिग्रहणवञ्चनार्थं स्ववाहोरपक्षेपणम् ॥२६॥ ।। १२६।। For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy