________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
दर्शनादवधारय” इति रामसन्निधौ पूर्व प्रतिज्ञातमर्थ साधयितुमुत्थितः सुग्रीव इत्याह- पश्यतामित्यादिना । पश्यतामित्यनादरे पष्ठी । अत्रानादरणमनुक्त्वा गमनम् । सप्तम्यर्थे षष्ठी वा । दर्शनात् दर्शनमात्रात् ॥ ७॥ क्रोधवेगेन, कथं मत्स्वामिनोऽग्रे स्वयं राजोपचारेण तिष्ठति दुरात्मेति कोपातिशयेनेत्यर्थः । | सत्त्वेन मनोबलेन । बजेन कायबलेन । पुप्लुवे, गोपुरमुद्दिश्येति शेषः ॥ ८ ॥ गोपुरस्थले स्थित्वेत्यन्वयः । अन्तरात्मना मनसा ||९|| रामाभिप्रायेण क्रोधवेगेन संयुक्तः सत्त्वेन च बलेन च । अचलाग्रादथोत्थाय पुप्लुवे गोपुरस्थले ॥ ८ ॥ स्थित्वा मुहूर्त सम्प्रेक्ष्य निर्भयेनान्तरात्मना । तृणीकृत्य च तद्रक्षः सोऽब्रवीत् परुषं वचः ॥ ९ ॥ लोकनाथस्य रामस्य सखा दासोऽस्मि राक्षस । न मया मोक्ष्यसेऽद्य त्वं पार्थिवेन्द्रस्य तेजसा ॥ १० ॥ इत्युक्त्वा सहसोत्पत्य पुप्लुवे तस्य चोपरि । आकृष्य मुकुटं चित्रं पातयित्वाऽपतद्भुवि ॥ ११ ॥ समीक्ष्य तूर्णमायान्तमावभाषे निशाचरः । सुग्रीवस्त्वं परोक्षं म हीनग्रीवो भविष्यसि ॥ १२ ॥ इत्युक्वोत्थाय तं क्षिप्रं बाहुभ्यामाक्षिपत्तले । कन्तुवत्तं समुत्थाय बाहुभ्या माक्षिपद्धरिः ॥ १३ ॥ परस्परं स्वेदविदिग्धगात्रौ परस्परं शोणितदिग्धदेहौ । परस्परं श्लिष्टनिरुद्धचेष्टौ परस्परं शाल्मलिकिंशुकौ यथा ॥ १४ ॥
सखा, वस्तुतो दासोऽस्मीति भावः । मया मत्तः । औद्धत्यं परिहरति पार्थिवेन्द्रस्य तेजसेति ॥ १० ॥ ११ ॥ आयान्तं, सुग्रीवमिति शेषः । परोक्षं ममासन्निधाने त्वं सुग्रीवः शोभनग्रीवः, प्रत्यक्षं तु हीनग्रीवो भविष्यसीत्यर्थः ॥ १२ ॥ तले गोपुरतले । आक्षिपत् अपातयत् । कन्तुवत्समुत्थाय कन्तुक वज्झटित्युत्पत्येत्यर्थः ॥ १३ ॥ परस्परमित्यादि श्लोकद्वयमेकान्वयम् । आरम्भे दृढपरीरम्भेण स्वेदसिक्तगात्रौ । ततः खरतरनखक्षतेन शोणितलिप्त पुप्लुवे, गोपुरमुद्दिश्येति शेषः । गोपुरस्थल इत्यस्य स्थित्वेत्युत्तरेण सम्बन्धः ॥ ८ ॥ ९ ॥ लोकनाथस्येति । रामाभिप्रायेण सखित्वम्, सुग्रीवाभिप्रायेण दासत्वमिति भावः ॥ १० ॥ ११ ॥ त्वं मे परोक्षे असन्निधाने सुग्रीवः शोभनग्रीवः । इदानीं सन्निधाने तु हीनग्रीवो भविष्यसीत्यर्थः ॥ १२ ॥ कन्तुवद समुत्थायेति सम्बन्धः ॥ १३ ॥ परस्परं शाल्मलिकिंशुकौ यथा शाल्मलिकिंशुकाविव ॥ १४ ॥
For Private And Personal Use Only