SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वा.रा.भू. ५१२४ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुनः सङ्ग्रहेणाह - तामिति । रत्नानि श्रेष्ठवस्तूनि । संविधानं रक्षणम् ॥ २९ ॥ इति श्री गो० श्रीरामा० रत्न० युद्धकाण्ड० एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ अथ सुग्रीवरावणयोर्द्वन्द्वयुद्धकथनं चत्वारिंशे । अत्र प्रथमश्लोकः पूर्वोक्तानुवादः- तत इति । योजनद्वयमण्डलं योजनद्वयविस्तारमण्डलम् ॥ १॥ स्थित्वे त्यादि । सुन्यस्तां सुष्ठु निवेशिताम् ॥ २ ॥ तस्यामित्यादि सार्द्धश्लोकत्रयमेकान्वयम् । अत्र ददर्शेत्यनुषज्यते । श्वेते चामरे पर्यन्ते पार्श्वद्वये यस्य सः तां रत्नपूर्णी बहुसंविधानां प्रासादमालाभिरलंकृत च । पुरीं महायन्त्रकवाटमुख्यां ददर्श रामो महता बलेन ॥ २९ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९ ततो रामः सुवेला योजनद्वयमण्डलम् । आरोह ससुग्रीवो हरियूथप संवृतः ॥ १ ॥ स्थित्वा मुहूर्त तत्रैव दिशो दश विलोकयन् । त्रिकूटशिखरे रम्ये निर्मितां विश्वकर्मणा । ददर्श लङ्कां सुन्यस्तां रम्यकाननशोभिताम् ॥ २ ॥ तस्यां गोपुरशृङ्गस्थं राक्षसेन्द्रं दुरासदम् ॥ ३ ॥ श्वेतचामरपर्यन्तं विजयच्छत्रशोभितम् । रक्तचन्दन संलिप्तं रत्नाभरणभूषितम् ॥ ४ ॥ नीलजीमूतसङ्काशं हेमसञ्छादिताम्बरम् । ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम् ॥ ५ ॥ शशलोहितरागेण संवीतं रक्तवाससा । सन्ध्यातपेन संवीतं मेघराशिमिवाम्बरे ॥ ६ ॥ पश्यतां वानरेन्द्राणां राघव स्यापि पश्यतः । दर्शनाद्राक्षसेन्द्रस्य सुग्रीवः सहसोत्थितः ॥ ७ ॥ श्वेतचामरपर्यन्तः, उभयतो वीज्यमानचामर इत्यर्थः । विजयच्छत्रं विजयसूचकच्छत्रम् । रत्नाभरणं पद्मरागाभरणम् । हेमसच्छादिताम्बरं तत्र तत्र सुवर्णचित्राम्बरम् । सुवर्णसूत्रिताम्बरमिति वाऽर्थः । उत्कृष्टकिणवक्षसम् उपपादितकिणवक्षसम् । उत्कृष्टस्य उल्लिखितस्य किणः वक्षसि यस्य स तथेति वाऽर्थः । शशलोहितरागेण शशरुधिरसमानरागेण । रक्तशब्दविवरणमिदम् । रक्तवाससा उत्तरीयेण संवीतं परिवीतम् ॥३६॥ " हतं च रावणं सङ्घये ।। २९ ।। इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां युद्धकाण्डव्याख्यायामेकोनचत्वारिंशस्सर्गः ॥ ३९ ॥ तत इति । योजनद्वयमण्डलं योजन द्वयममाणविस्तारम् ॥१-४॥ हेमसञ्छादिताम्बरं तत्रतत्र हेमचित्रिताम्बरम् । उत्कृष्टकिणवक्षसम् उत्कृष्ट उत्पादिताः किणाः प्रहारकिणाः वक्षसि यस्य सम् ॥ ५ ॥ शशलोहितं शशरुधिरम् । एतादृशविशेषणविशिष्टं राक्षसेन्द्रं दृष्ट्वेति शेषः ॥ ६॥ पश्यतामिति श्लोकद्रयमेकं वाक्यम् । पश्यतामित्यादावनादरे षष्ठी ॥७॥ For Private And Personal Use Only टी. यु. कॉ स० ४० ॥ १२४॥
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy