________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
निविष्टेत्यादिश्लोकपञ्चकमेकान्वयम् । सालेन प्राकारेण । प्रासादेरिति । प्रासादादिलक्षणं प्रागेव लिखितम् । आतपापाये वर्षारम्भसमये । मध्यम वैष्णवं पदमिति । त्रिविक्रमावतारे त्रिभिः पदैः सर्वलोककमणे मध्यमपदेनान्तरिक्षं क्रान्तमिति आकाशं मध्यम वैष्णवं पदमित्युच्यते ॥२०-२२॥ निविष्टा तत्र शिखरे लङ्का रावणपालिता। शतयोजनविस्तीर्णा त्रिंशद्योजनमायता ॥२०॥ सा पुरी गोपुरैरुचैः पाण्डराम्बुदसन्निभैः । काञ्चनेन च सालेन राजतेन च शोभिता ॥२१॥ प्रासादैश्च विमानैश्च लङ्का परम भूषिता । घनेरिवातपापाये मध्यमं वैष्णवं पदम् ॥२२॥ यस्यां स्तम्भसहस्रेण प्रासादःसमलंकृतः । कैलासशिखरा कारो दृश्यते खमिवोल्लिखन् ॥ २३ ॥ चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम् । बलेन रक्षसां नित्यं यः समग्रेण रक्ष्यते ॥२४॥ मनोज्ञा काननवतीं पर्वतैरुपशोभिताम् । नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम् ॥२५॥ नानाविहगसंधुष्टां नानामृगनिषेविताम् । नानाकाननसन्तानां नानाराक्षससेविताम् ॥ २६ ॥ तां समृद्धा समृ द्धार्थी लक्ष्मीवान लक्ष्मणाग्रजः । रावणस्य पुरी रामो ददर्श सह वानरैः ॥२७॥ तां महागृहसम्बाधां दृष्ट्वा लक्ष्मण
पूर्वजः। नगरीममरप्रख्यो विस्मयं प्राप वीर्यवान् ॥ २८॥ यस्यामिति । उल्लिखन् व्याप्नुवन् ॥ २३॥ चैत्य इति । नगरमध्यचतुष्पथं चैत्यम्, तत्र भवश्वैत्यः । राक्षसेन्द्रस्य पुरभूषणमित्यन्वयः । यः समग्रेण रक्षसां शतेन नित्यं रक्ष्यते । यश्च राक्षसेन्द्रस्य पुरभूषणं बभूव । स्तम्भसहस्रेण समलंकृतः कैलासशिखराकारःखमुल्लिखन्निव स्थितः चैत्यः स प्रासादः यस्यां दृश्यते ताहशी रावणपालितत्वादिविशेषणविशिष्टा तत्र शिखरे निविटा लङ्का अदृश्यतेत्यध्याहारणान्वयः ॥ २४॥ एवं वानराणा मागतानां लङ्कादर्शनमुक्त्वा रामस्यापि तदर्शनमाह-मनोज्ञामित्यादि श्लोकत्रयमेकान्वयम् । पर्वतैः क्रीडाशैलेः । नानाधातुविचित्र इति पर्वतविशे| पणन् । उद्यानैः कृत्रिमवनैः ॥ २५॥ नानाकाननेति । पूर्व काननवत्त्वमुक्तम्, अत्र तन्नानात्वमिति भिदा ॥२६॥ समृद्धाम् उन्नताम् । समृद्धार्थी समृद्ध । द्रव्याम् । लक्ष्मीवान नगरदर्शनजप्रीतिविकसितकान्तिः ॥२७॥ अमरप्रख्यः देवसदृशः ॥२८॥ सा पुरीति । सालेन प्राकारेण ॥ २१॥ प्रासादरिति । आतपापाये वर्षाकाले । मध्यमं वैष्णवं पदम् आकाशम् ॥ २२-२८ ॥
For Private And Personal Use Only