________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
४१२३।।
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
प्रमुदिताः सन्तुष्टाः । वीराः शत्रुवनप्रवेशेऽपि निर्भयाः । कामरूपिणः सूक्ष्मविपुलप्रवेशानुगुणस्थूलसूक्ष्मशरीखन्तः ॥ १२ ॥ तेषामिति । स्पष्टः ॥ १३ ॥ * अन्ये त्वित्यादिसार्धश्चोकद्वयमेकान्वयम् । स्पष्टम् ॥ १४ ॥ १५ ॥ रजःश्चेत्यर्धमेकं वाक्यम् । चरणोत्थितं वानरपादाहतिजनितम्। रजः ऊर्ध्वं जगाम उत्थितमित्यर्थः ॥ १६ ॥ अत्र ऋक्षादयो लङ्कावनवासिनः । भीताः दर्शनादेव भीताः । तेन शब्देन वित्रस्ताः विशेषेण त्रस्ताः । दश दिशो जग्मुः, यथायथं तेषां प्रविशतां तत्र वानराणां महौजसाम् । पुष्पसंसर्गसुरभिर्ववौ घ्राणसुखोऽनिलः ॥ १३ ॥ अन्ये तु हरिवीराणां यूथान्निष्क्रम्य यूथपाः । सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम् ॥ १४ ॥ वित्रासयन्तो विहगांस्त्रासयन्तो मृगद्विपान । कम्पयन्तश्च तां लङ्कां नादैस्ते नदतां वराः । कुर्वन्तस्ते महावेगा महीं चरणपीडिताम् ॥ १५ ॥ रजश्व सहसैवोर्ध्वं जगाम चरणोत्थितम् ॥ १६ ॥ ऋक्षाः सिंहा वराहाश्च महिषा वारणा मृगाः । तेन शब्देन वित्रस्ता जग्मुर्भीता दिशो दश ॥ १७ ॥ शिखरं तत् त्रिकूटस्य प्रांशु चैकं दिविस्पृशम् । समन्तात् पुष्पसञ्छन्नं महारजत सन्निभम् ॥ १८ ॥ शतयोजनविस्तीर्ण विमलं चारुदर्शनम् । श्लक्ष्णं श्रीमन्महच्चैव दुष्प्रापं शकुनैरपि । मनसाऽपि दुरारोहं किं पुनः कर्मणा जनैः ॥ १९ ॥
जग्मुरित्यर्थः ॥ १७ ॥ एवं त्रिकूटस्य प्रथमशिखरं सुवेलाख्यमुक्त्वा मध्यमशिखरं वर्णयति-शिखरं तदित्यादिना । सार्धश्लोकद्वयमेकान्वयम् । तत् प्रसिद्धम् । प्रांशु पार्श्ववर्तिशिखरद्वयापेक्षया उन्नतम् । एकम् अद्वितीयम्, मध्यममित्यर्थः । स्पृशतीति स्पृशम् । इगुपधलक्षणः कप्रत्ययः । समन्तात् पुष्पसञ्छन्नम् अत एव महारजतसन्निभं पृथुरजतसन्निभम् । यद्वा सुवर्णसन्निभमिति स्वरूपोक्तिः । चारुदर्शनं सुन्दरदर्शनम् । एवंभूतं शिखरम् अदृश्य तत्यध्याहारः ॥ १८ ॥ १९ ॥
कोकिलाकुलाः षण्डा वृक्षषण्डा येषु तानि ।। १०-१७॥ दिवं स्पृशतीति दिविस्पृशम् । समन्तात्पुष्पसञ्छन्नम् अत एव महारजतसन्निभं महारजतं काञ्चनम्॥ १८-२ ॥
For Private And Personal Use Only
टी.यु.का. ० २३९
।। १२३ ।।