SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir ANS आयतानि दीर्घाणि । दृष्टिरम्याणि नयनाकर्षणानि वनान्युपवनानि चेत्याकृष्यान्वयः॥२॥ चम्पकेत्यादिचोकचतुष्टयमेकान्वयम् । नागमाला नागकेसर । माला॥ ३॥ हिन्तालैरित्यादि। उपलक्षितेति शेषः ॥४॥ दिव्यैः पारिजातादिभिः । अत्राप्युपलक्षितेति शेषः । विचित्रेत्यादि पदद्वयमपि दिव्यद्रुम विशेष णम् । शालैरित्यादावप्युपलक्षणे तृतीया । लङ्काशन्दश्चात्र सुवेलपरः। उत्तरत्र वानरप्रवेशोक्तेः। शुशुभे शोभमाना दृश्यत इत्यन्वयः॥६॥६॥ चम्पकाशोकपुन्नागसालतालसमाकुला । तमालवनसञ्छन्ना नागमालासमावृता ॥ ३॥ हिन्तालैरर्जुनैींपैः सप्त पर्णेश्च पुष्पितैः । तिलकैः कर्णिकारैश्च पाटलैश्च समन्ततः ॥४॥ शुशुभे पुष्पिताग्रैश्च लतापरिगतैर्दुमैः । लङ्क बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती ॥५॥ विचित्रकुसुमोपेतै रक्तकोमलपल्लवैः । शादलैश्च तथा नीलश्चित्राभिर्वन राजिभिः ॥ ६ ॥ गन्धाढ्यान्यभिरम्याणि पुष्पाणि च फलानि च । धारयन्त्यगमास्तत्र भूषणानीव मानवाः ॥७॥ तच्चैत्ररथसङ्काशं मनोज्ञं नन्दनोपमम् । वनं सर्वतुकं रम्यं शुशुभे षट्पदायुतम् ॥८॥ नत्यूहकोयष्टिभकैर्नृत्य मानैश्च बहिभिः । रुतं परभृतानां च शुश्रुवुर्वननिर्झरे ॥ ९॥ नित्यमत्तविहङ्गानि भ्रमराचरितानि च । कोकिला कुलपण्डानि विहगाभिरुतानि च ॥ १०॥ भृङ्गराजाभिगीतानि भ्रमरैः सेवितानि च । कोणालकविघुष्टानि सारसाभिस्तानि च ॥११॥ विविशुस्ते ततस्तानि वनान्युपवनानि च । हृष्टाः प्रमुदिता वारा हरयः कामरूपिणः॥१२ गन्धति । तत्र वनेषुधारयन्ति अधारयन् । अगमाः वृक्षाः ॥७॥ सर्वे ऋतको यस्मिन् तत्सर्वर्तुकम् । “शेषाद्विभाषा" इति कप्प्रत्ययः। पट्सदायुतं षट्पदैः आ समन्ताद्युतम् ॥८॥ वननिर्झरेनत्यूहे कोयटिभकैः जलकुक्कुटविशेपैः नृत्यमानः नृत्यद्भिः बर्हिणैश्च सहितानां परभृतानां रुतं शुश्रुवुरिति योजना॥९॥ वनरामणीयकाकृष्टास्तत्र विविशुरित्याह-नित्येत्यादिना कामरूपिण इत्यन्तेन शोकत्रयेण । विहङ्गाः वक्ष्यमाणकोकिलादिव्यतिरिक्ताः। पण्डाः वृक्ष समूहाः । विहङ्गभृङ्गसञ्चारस्य तन्नादस्य च वनशोभाहेतुत्वात्तत्सञ्चारमुक्ता तत्रादमाह-विहगेत्यादिना । विहमानामभिरुतं येषु तानि विहगाभि रुतानि । एवमुत्तरत्रापि विग्रहः॥१०॥ कोणालकः खञ्जनः सारसाभिरुतानीत्यनेन बनादीनां सरस्समीपवर्तित्वमुक्तम् ॥११॥ हृशाःपुलकिताः सौम्यानीति यावत् ॥२-७॥ सर्व कं सर्वे कत्लबो यस्मिन् तत् सर्वर्तुकम्।।८॥ नृत्यमानः नृत्यद्भिा बहिणेर्युक्त वन शुशुभ इति सम्बन्धः ॥९॥ कोकिलाकुलपण्डानि For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy