________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
हेतुना कृतमित्यवाह राक्षस्येति । तत् भार्यापहरणम् ॥५॥ एतादृशस्य निलयदर्शने किं फलम् ? तबाह-तस्मिन्निति । वर्तते उत्पद्यते । तहि || तन्मात्रवधे यत्नः क्रियतामित्यवाह-यस्येति ॥६॥ अन्यस्य दोषेणान्यवधः किमर्थे कियत इत्यत्राह-एक इति । एकः पापं कुरुते नीचेन तेन की आत्मापचारेण तद्दोपेण कारणेन कुलं तत्संबन्धिनः सर्वे विनश्यन्ति ॥७॥ संमन्त्रयन् वदन् । उपारुहत् उपारुक्षत् ॥८॥ पृष्ठत इत्यादि सार्थश्लोकः।।
तस्मिन् मे वर्तते रोषः कीर्तिते राक्षसाधमे । यस्यापराधानीचस्य वधं द्रक्ष्यामि रक्षसाम् ॥६॥ एको हि कुरुते पापं कालपाशवशं गतः। नीचेनात्मापचारेण कुलं तेन विनश्यति ॥७॥ एवं सम्मन्त्रयन्नेव सक्रोधो रावणं प्रति । रामः सुवेलं वासाय चित्रसानुमुपारुहत् ॥ ८॥ पृष्ठतो लक्ष्मणश्चैनमन्वगच्छत् समाहितः । सशरं चापमुद्यम्ब सुमहद्विक्रमे रतः। तमन्वरोहत् सुग्रीवः सामात्यः स विभीषणः ॥ ९॥ हनुमानङ्गदो नीलो मैन्दो द्रिविद एव च ॥१०॥ गजो गवाक्षो गवयः शरभो गन्धमादनः । पनसः कुमुदश्चैव हरो रम्भश्च यूथपः ॥ ११॥ जाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः । दुर्मुखश्च महातेजास्तथा शतवलिः कपिः ॥ १२॥ एते चान्ये च बहवो वानराः शीघ्रगामिनः । ते वायुवेगप्रवणास्तं गिरि मिरिचारिणः । अध्यारोहन्त शतशः सुवेलं यत्र राघवः ॥ ३॥ ते त्वदीर्पण कालेन गिरिमारुह्य सर्वतः। ददृशुः शिखरे तस्य विषक्तामिव खे पुरीम् ॥ १४ ॥ समाहितः सावधानः ॥ ९॥ सामात्य इत्युक्तं विवृणोति-इजुपानित्यादिचतुःश्लोकी । हनुमानिति पृथमुक्त्या रामलक्ष्मणो युद्ध यामेवारूढाविति । गम्यते ॥१०-१२॥ ते प्रसिद्धाः । एते चान्ये च । वायुवेगप्रवणाः वायुवेगेन गच्छन्तः। "ङ्गतौ" इति धातोर्बहुलग्रहणात्करि ल्युट् । अत एव शीघ्रगामिनः सन्तः अध्यारोहन्त ॥ १३ ॥ ते रामादयः। तस्य प्रसिद्धस्य त्रिकूटस्य । खे विषक्ताम् आकाशे लम्बमानामिव स्थिलाग । पुरी लङ्का वायुवेगप्रवणाः वायुवेगगतयः “पुङगतो" इति धातोः पम् ॥ १३॥ तस्य प्रसिद्धस्य त्रिकूटाद्रेः शिखरे विषतां खे चरन्तीमिव स्थितां पुरी ददृशुरिति
For Private And Personal Use Only