________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
मध्यमः, मध्यमसेना भवत्वित्यर्थः । बलवद्भयां रावणेन्द्रजिद्भयामधिष्ठितयोरुत्तरपश्चिमयोः मध्यमगुल्मो भवत्वित्यर्थः ॥ ३२ ॥ न चैवेति । संज्ञा सङ्केतः ॥ ३३ ॥ अस्य प्रयोजनमाह-वानरा इति । नः अस्माकम् । वानरा एवास्मिन् स्वजने चिह्नं भविष्यतीति, अस्माकं वानरत्वमेवात्मीयत्व | ज्ञापकं भविष्यतीत्यर्थः । यदि वानरा अपि कामरूपधारणेन युद्धयेयुः । राक्षसानामपि तादृशत्वादात्मपरविवे को न स्यात् । वानरत्वन्तु जघन्यतया न चैव मानुषं रूपं कार्य हरिभिराहवे । एषा भवतु संज्ञा नो युद्धेऽस्मिन् वानरे बले ॥ ३३ ॥ वानरा एव नश्चिह्नं स्वजनेऽस्मिन् भविष्यति ॥ ३४ ॥ वयं तु मानुषेणैव सप्त योत्स्यामहे परान् । अहमेष सह भ्रात्रा लक्ष्मणेन महौ जसा । आत्मना पञ्चमश्चायं सखा मम विभीषणः ॥ ३५ ॥ स रामः कृत्यसिद्धयर्थमेवमुक्त्वा विभीषणम् । सुवेला रोहणे बुद्धिश्चकार मतिमान् मतिम् । रमणीयतरं दृष्ट्वा सुवेलस्य गिरेस्तटम् ॥ ३६ ॥ ततस्तु रामो महता बलेन प्रच्छाद्य व पृथिवीं महात्मा । प्रहृष्टरूपोऽभिजगाम लङ्कां कृत्वा मतिं सोऽरिवधे महात्मा ॥ ३७ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तत्रिंशः सर्गः ॥ ३७ ॥
न ते भजिष्यन्तीति भावः । इदानीं मानुषरूपपरिग्रहप्रतिषेधसामर्थ्यादितः पूर्वं मानुषरूपं परिगृह्य स्थिता इति गम्यते ॥ ३४ ॥ वयं त्विति । मानु षेण मनुष्यसंबन्धिना, रूपेणेति शेषः । विभीषणादीनामपि मानुषरूपसंस्थानसादृश्यादेवमुच्यते ॥ ३५ ॥ स राम इत्यादिसार्धश्लोक एकान्वयः । कृत्यसिद्धयर्थं कार्यसिद्ध्यर्थम् । सुवेलारोहणे विषये बुद्धिः बुद्धिमान् । मतुब्लोप आर्पः । मतिम् इच्छाम् । सुवेलारोहणे बुद्धिं चकार मतिमान् मतिमिति च पाठः । सुवेलारोहणबुद्धिमेव मतिं चकार, नान्यामित्यर्थः । आरोहणेच्छाहेतुमाह रमणीयतरमिति । सौन्दर्यावलोकनमेव तदारोहण | संज्ञा सङ्केतः ॥ ३३ ॥ किमर्थमत आह् वानरा इति । नः अस्माकं वानरा एव अस्मिन् स्वजने चिह्नं भविष्यति अस्माकं वानरत्वमेवात्मीयत्वज्ञापकं प्रविष्यती त्यर्थः । यदि वानरा अपि कामरूपधारणेन युद्धयेयुः राक्षसानामपि तादृक्त्वादात्मपरबलविवेको न स्यादिति भावः ॥ ३४ ॥ वयमिति । मानुषेण, रूपेणेति शेषः । तिमी णादीनां मानुषरूपसंस्थानसादृश्यादेवमुच्यते ॥ ३५ ॥ कृत्यसिद्ध्यर्थे कृत्यं कर्तव्यमेव सिद्धिः प्रयोजनं यस्य तम् । विभीषणविशेषणमिदम् । सुवेलारोहणे विकार मतिमान् मतिं सुवेलारोहणे प्रवृत्ता बुद्धिर्यस्य सः सुवलारोहणेबुद्धिः । अलुत्वमार्थम् । मतिमान आगामिगोचरबुद्धिमान् ।
For Private And Personal Use Only