________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अत्र राक्षसेषु । एकैकस्य राक्षसस्य । सहस्राणां सहस्रं दशलक्षसङ्घयाविशिष्टः परिवारः । इदानी युद्धार्थे युद्धनिमित्तम् उपतिष्ठत इत्यन्वयः। ॥ १८॥ एतामिति सार्घश्शोकः । तान मन्त्रिभूतान् । दर्शनानन्तरं सचिवैः प्रयोज्यकर्तृभिः । लङ्कायां सो प्रवृत्तिमित्यनुपज्यते । रामाय प्रत्य वेदयत्, सचिवैरपि तं वृत्तान्तमावेदयदित्यर्थः ॥ १९॥ राममित्यादि श्लोकत्रयम् । उत्तरम् अनन्तरवक्तव्यम् ॥२०॥ दिग्विजयकालिकबलादाधुनिक ।।
एकैकस्यात्र युद्धार्थे राक्षसस्य विशांपते । परिवारः सहस्राणां सहस्रमुपतिष्ठते ॥ १८॥ एतां प्रवृत्तिं लङ्कायां मन्त्रिप्रोक्तां विभीषणः। एवमुक्त्वा महावाहू राक्षसांस्तानदर्शयत् । लङ्कायां सचिवैः सर्वा रामाय प्रत्यवेदयत् ॥ १९॥ रामं कमलपत्राक्षमिदमुत्तरमब्रवीत् । रावणावरजः श्रीमान रामप्रियचिकीर्षया ॥२०॥ कुबेरं तु यदा राम रावणः प्रत्ययुद्धयत । षष्टिः शतसहस्राणि तदा निर्यान्ति राक्षसाः ॥२१॥ पराक्रमेण वीर्येण तेजसा सत्त्वगौरवात्। सदृशा येऽत्र दर्पण रावणस्य दुरात्मनः ॥ २२ ॥ अत्र मन्युर्न कर्तव्यो रोषये त्वां न भीषये ।
समर्थो ह्यसि वीर्येण सुराणामपि निग्रहे ॥ २३ ॥ बलमधिकमिति कथयितुं पूर्वबलं परिगणयति-कुबेरमिति। निर्यान्ति निर्ययुः । पराक्रमेण पराभिभवसामर्थेन । वीर्येण युद्धे स्वयमविकृतत्वेन । तेजसा प्रतापेन । सत्त्वगौरवात् धैर्यातिशयेनेत्यर्थः । दर्पण च । रावणस्य अब ये सदृशास्तादृशा राक्षसा इति पूर्वेणान्वयः ॥ २१ ॥२२॥ स्वामिसन्निधौ शत्रुबलवर्णनमयुक्तमित्याशय परिहरति-अवेति । अत्र बलवर्णने सति । मन्युः क्रोधः न कर्तव्यः । रोषये शत्रुनिरसनाय रोष एकैकस्येति । अब परिगणितगजपोधिप्रभृतिचतुर्विधराक्षसेषु एकैकस्य राक्षसस्य सहस्राणां सहस्रं परिवारो युद्धार्थमुपतिष्ठते उपतिष्ठतीति सम्बन्धः ॥१८॥ विभीषणः मन्त्रिप्रोक्तो लङ्कायो प्रवृत्तिम् एवमुक्त्वा तान् राक्षसान मन्त्रीन अदर्शवदित्यर्थः । लङ्कायो सर्वा, प्रवृत्तिमिति शेषः । सचिवेस्तैरेव मन्त्रिभिः रामाय
प्रत्यवेदयत ॥ १९ ॥ राममिति । ततो राममिदमुत्तरमब्रवीदिति सम्बन्धः ॥२०॥ स्वातमिदानीन्तनवलं प्रभूततरमिति ज्ञापयितुं तस्य पुरातनवलस्य इयत्तामाहIdकुवेरमिति द्वाभ्याम् । सत्वगौरवात धैर्यातिशयेन । अत्र लढायाम, स्थिता इति शेषः ॥२१॥२२॥ अब रावनवलवर्णनविषये मन्पुर्न कर्तव्यः।रोषये रोषमुत्पादये।
For Private And Personal Use Only