SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir बा.रा.भू./पट्टिशासिधनुष्मद्भिः शूलमुद्रपाणिभिः । बहुभी राक्षसैः प्रधानराक्षसैर्वृतः । नानाप्रहरणैः शूरैरावृतः । रावणात्मजः इन्द्रजित् पश्चिमद्धारम, टी.यु.का. ॥११॥ आसाद्य तिष्ठतीत्यनुकृष्यते ॥ ११॥ असंविनः अकम्पितहृदयः। राक्षसैः प्रधानभूतैः ॥ १२॥ १३ ॥ बलेन सेनया । राक्षसैः मुख्यैः ॥ १४॥2.स. इन्द्रजित् पश्चिमदारं राक्षसैर्बहुभिर्वृतः । पट्टिशासिधनुष्मद्भिः शूलमुद्गरपाणिभिः । नानाप्रहरणैः शरैरावृतो रावणात्मजः॥ ११॥ राक्षसानां सहस्रेस्तु बहुभिः शस्त्रपाणिभिः । युक्तः परमसंविनो राक्षसैर्बहुभिर्वृतः ॥ १२॥ उत्तरं नगरद्वारं रावणः स्वयमास्थितः॥१३॥ विरूपाक्षस्तु महता शुलखङ्गधनुष्मता । बलेन राक्षसैः सार्ध मध्यम गुल्ममास्थितः ॥ १४ ॥ एतानेवंविधान गुल्मान लङ्कायां समुदीक्ष्य ते । मामकाः सचिवाः सर्वे पुनः शीघ्र मिहागताः॥ १५॥ गजानां च सहस्रंच स्थानामयुतं पुरे । हयानामयुते द्वे च सायकोटिश्च रक्षसाम् ॥ १६॥ विक्रान्ता बलवन्तश्च संयुगेष्वाततायिनः । इष्टा राक्षसराजस्य नित्यमेते निशाचराः॥ १७॥ गुल्मान् सेनाः । “ गुल्मो रुस्तम्बसेनासु" इत्यमरः ॥ १५॥ गजानां गजयोधिनाम् । स्थानां हयानामित्यत्राप्येवं द्रष्टव्यम् । हयानां सायकोटिः द्वे अयुते चेत्यन्वयः। एते एतावन्तः । यद्वा गजानामित्यादिशन्दा गजादिपराः। एवमुत्तरोत्तराधिकसङ्ख्योच्यते । हयाना द्वे अयुते । रक्षसां सायकोटिः पूर्णा कोटिः। एते रावणस्येष्टा अन्तरङ्गाः, स्वसेविन इत्यर्थः ॥ १६॥ आततायिनः क्रूरा इत्यर्थः ॥ १७॥ एतानिति । गुल्मान् गणान् ॥ १५ ॥ गजानां गजयोधिनाम् । सहस्र, सन्नद्धमिति शेषः । रथानां रथिनाम् अयुतम्, अत्रापि सन्नद्धमिति शेषः । हयानामयुते द्वे सबढे रक्षसा साप्रकोटिस्सन्नद्धेत्यर्थः ॥ १६ ॥ १७ ॥ मा-परमसंविनः परं यथा भवति तथा असंविना विभीतिष्ठतीत्पन्धयः । शुकसारणावेदितमहाबलस्मरणादन्तःकरणे भीत इति व्याख्या स्तुतिप्रस्तावाननुगुणा । यदि वक्तव्या भीतिस्तहिं हनुमतकलेन||Mill IN॥११॥ कृतस्य कर्मणो दृष्टत्वेन वक्तव्या । श्रवणापेक्षया स्वसाक्षिणः प्रावस्यात् ॥ १२॥ आततायिनः स्वयमेव सीतोपरोधापराधं कृत्वा शस्त्रपाणय इत्याततापिनः । यदा संयुगे युद्धे इषवः आत्यन्ते सदा सम्यक् । क्षिप्यन्ते येन तदिष्वातं धनुः तेन तायन्ते पालयन्ति जनानिति संयुगेष्वाततायिनः । “ता सन्तानपालनयोः" इति धातोः । यद्वा परदारापहर्तसम्बन्धित्वादाततायिनः । “ क्षेत्रदारापहर्ता च " इत्युक्तेः। निशाचराः यूथपाः ॥ १७॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy