SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatm.org Acharya Shri Kalassagarsun Gyanmandir अथ रामस्य सेनायुप्तिविधानं सप्तत्रिंशे-नरवानरेत्यादिश्लोकत्रयमेकान्वयम् । सहदायादः सबान्धवः । “दायादौ सुतबान्धवो" इत्यमरः । इदं विशेषणं सर्वत्र यथाईमन्वेति । अमित्रविषयं शवदेशम् । समर्थयन् अमन्त्रयन् ॥ १-३॥ रामानु०-समर्थयन् अमन्त्रयन् । अडभाव आर्षः ॥१॥ अथ विचारप्रकार लामेवाह-इयमित्यादिना । सा हनुमता पूर्वमुक्ता । कार्यसिद्धिं विजयसिद्धिम् । पुरस्कृत्य प्रधानी कुस्प । विनिर्णये निमित्ते मन्त्रयध्वम् । विजयसाधक नरवानरराजौ तौ स च वायुसुतः कपिः। जाम्बवानृक्षराजश्च राक्षसश्च विभीषणः ॥ १ ॥ अङ्गदो वालिपुत्रश्च सौमित्रिः शलभः कपिः । सुषेणः सहदायादो मैन्दो द्विविद एव च ॥२॥ गजो गवाक्षः कुमुदो नलोऽथ पनस स्तथा । अमित्रविषयं प्राप्ताः समवेताः समर्थयन् ॥ ३॥ इयं सा लक्ष्यते लङ्का पुरी रावणपालिता । सासुरोरग गन्धर्वेरमरैरपि दुर्जया ॥४॥कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये । नित्यं सन्निहितो ह्यत्र रावणो राक्षसा धिपः॥५॥ तथा तेषु बुवाणेषु रावणावरजोऽब्रवीत् । वाक्यमग्राम्यपदवत् पुष्कलार्थं विभीषणः ॥६॥ अनलः शरभश्चैव सम्पातिः प्रघसस्तथा । गत्वा लङ्कां ममामात्याः पुरी पुनरिहागताः ॥७॥ भूत्वा शकुनयः सर्वे प्रविष्टाश्च रिपोर्बलम् । विधानं विहितं यच्च तदृष्ट्वा समुपस्थिताः ॥ ८॥ संविधानं यदाहुस्ते रावणस्य दुरात्मनः। राम तदब्रुवतः सर्वं यथातत्त्वेन मे शृणु ॥९॥ पूर्व प्रहस्तः सबलो द्वारमासाद्य तिष्ठति । दक्षिणं च महावीर्यों महापार्श्वमहोदरौ॥१०॥ कार्यनिर्णयाय मन्त्रः प्रवर्त्यतामित्यर्थः॥४॥५॥ अग्राम्यपदवत् संस्कृतपदवत् । सर्वेषां स्फुटप्रतिपत्तये स्वदेशभाषापदरहितमुक्तवानित्यर्थः ॥६॥ अनल इत्यादिश्योकत्रयम् । विधानं नगररक्षणसंविधानम् । ते दुरात्मनो रावणस्य यत्संविधानमाहुः तद्यथातत्त्वेन याथायन अवतः मे मत्तः शृणु। ॥ ७-९॥ पूर्वमिति । स्पष्टः ॥१०॥ Ku१॥ सहदायादः सबन्धुवर्गः ॥२॥ अमित्रविषयं शत्रुदेशम् । समर्थयन् अमन्त्रयन् ॥३॥ या दुरासदेति श्रूयते सेयं लद्वेत्यर्थः ॥ ४ ॥ कार्यसिद्धिं पुरस्कृत्य विनिर्णये निमित्ते मन्त्रयध्वं शत्रहननकार्यनिश्चयाय मन्त्रः क्रियतामित्यर्थः॥५॥ अमाम्यपदवत अमाम्यार्थपदवत् ॥६॥७॥ विधानं लङ्कारक्षणम् ॥ ८-१५॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy