________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
भा.रा.भू.
.
६
इत्यर्थः ॥ १२॥ अर्णवं तीत्वा स्थितो राम इत्यर्थः॥ १३॥ संरब्धम् अहङ्कारकम् । वीडित इति । स्वोपदेशवैफल्यादिति भावः ॥ १४॥ यथोशटी.यु.का चितमिति । प्रत्युत्थानादिनेति भावः ॥ १५॥ मन्त्रयित्वा कर्तव्यं विचार्य । विमृश्य निश्चित्य ॥१६॥ स इति । व्यादिदेश, रक्षणायेति
स तुतीर्णवं रामः सह वानरसेनया । प्रतिजानामि ते सत्यं न जीवन् प्रतियास्यति ॥ १३॥ एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम् । वीडितो माल्यवान् वाक्यं नोत्तरं प्रत्यपद्यत ॥ १४॥ जयाशिषा च राजानं वर्धयित्वा यथोचितम् । माल्यवानभ्यनुज्ञातो जगाम स्वं निवेशनम् ॥ १५॥ रावणस्तु सहामात्यो मन्त्रयित्वा विमृश्य च । लङ्कायामतुलां गुप्तिं कारयामास राक्षसः ॥ १६॥ स व्यादिदेश पूर्वस्या प्रहस्तं द्वारि राक्षसम् । दक्षिणस्यां महावी? महापार्श्वमहोदरौ ॥१७॥ पश्चिमायामथो द्वारि पुत्रमिन्द्रजितं तथा। व्यादिदेश महामायं बहुभी राक्षसैर्वृतम् ॥१८॥ उत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ । स्वयं चात्र भविष्यामि मन्त्रिणस्तानुवाच ह॥ १९ ॥राक्षसं तु विरूपाक्षं महावीर्यपराक्रमम् । मध्यमेऽस्थापयद् गुल्मे बहुभिः सह राक्षसैः॥२०॥ एवं विधानं लङ्कायाः कृत्वा राक्षसपुङ्गवः । कृतकृत्यमिवात्मानं मन्यते कालचोदितः ॥२१॥ विसर्जयामास ततः स मन्त्रिणो विधानमाज्ञाप्य पुरस्य पुष्कलम् । जयाशिषा मन्त्रिगणेन पूजितो विवेश चान्तःपुरमृद्धिमन्महत्
॥ २२ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमयुद्धकाण्डे पदत्रिंशः सर्गः ॥ ३६॥ शेषः॥ १७॥१८॥ उत्तरस्यामिति । भविष्यामीत्यनन्तरमितिकरणं द्रष्टव्यम् ॥१९॥ मध्यमे गुल्म इति । गुल्मो नाम नगरमध्यचैत्यस्थानम् ॥२०॥ विधानं रक्षणसंविधानम् ॥ २३ ॥ पुष्कलं समग्रम् ॥२२॥ इति श्रीगोविन्द श्रीरामा स्वकिरीटाख्याने युद्धकाण्डव्याख्याने षट्त्रिंशः सर्गः ॥३६॥ इति । दोषञ्चेत किमिति न त्यज्यते ! तबाह स्वभाव इति ॥ ११ ॥ १२ ॥ स त्वित्यस्व वास्तवार्थस्तु-रामः दानरसेनया सह अर्णवं तीर्खा जीवन प्रतियास्य तीति ते सत्यं प्रतिजानामि न सन्देहः । अथापि मे स्वभावो दुरतिक्रमः इति पूर्वेण सम्बन्धः ॥ १३-१८॥ उत्तरस्यामिति । स्वयं चात्र भविष्यामीत्यत्र इति करणं द्रष्टव्यम् ।। १९-२२ ॥ इति श्रीमहेश्वरतीर्थविरचिताया श्रीरामायणतत्त्वदीपिकाख्यायो युद्धकाण्डव्याख्यायाँ पत्रिंशः सर्गः ॥३६॥
For Private And Personal Use Only