________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पातेन शत्रौ पक्षपातेन ॥६॥ परप्रोत्साहनेनेत्येतदुपपादयति-प्रभवन्तमिति । प्रभवन्तं प्रभावयुक्तम् । पदस्थं परिपक्वबुद्धिम् । परप्रोत्साहनाभावे । पण्डितस्य पदस्थविषयकपरुपवचनं नोपपद्यत इत्यर्थः ॥ ७॥ अस्तु त्वदुक्तं परमार्थः, तथापि दुर्लभवस्तुविशेषः कथं त्याज्य इत्याह-आनीयेति प्रभवन्तं पदस्थं हि परुषं कोऽभिधास्यति । पण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनाद्रिपोः ॥७॥ आनीय च वनात् सीतां पद्महीनामिव श्रियम् । किमर्थ प्रतिदास्यामि राघवस्य भयादहम् ॥८॥ वृतं वानरकोटीभिः ससुग्रीवं सलक्ष्म णम् । पश्य कैश्चिदहोमिस्त्वं राघवं निहतं मया ॥९॥ इन्द्रे यस्य न तिष्ठन्ति दैवतान्यपि संयुगे । स कस्मा द्रावणो युद्धे भयमाहारयिष्यति॥१०॥ द्विधा भज्येयमप्येवं न नमेयं तु कस्यचित् । एष मे सहजो दोषःस्वभावो
दुरतिक्रमः॥११॥ यदि तावत् समुद्रे तु सेतुर्बद्धो यदृच्छया । रामेण विस्मयः कोत्र येन ते भयमागतम् ॥ १२॥ किमर्थ केन हेतुना । राघवस्य राघवात् ॥ ८॥९॥ द्वन्द्वे द्वन्द्वयुद्धे । युद्धे रामयुद्धे ॥ १० ॥ अत्यन्तहितपरं वृद्ध मातामहं कथमेवं परुषमुक्तवान। स्मीत्यनुतापेनाह-द्विधेति । राम आगत्य भयं जनयिष्यतीति त्वयोक्तम् । न केवलं भयमात्रम् । द्विधा भज्येयं शिरश्छेदं प्रामुयाम् । एवमपि न नमे यम् । कस्यचित् न केवलं रामस्य ततोऽपि शतगुणवलवतोऽपि द्विधा भङ्गादपि कस्यचिन्नमनमत्यन्तदुस्सहमित्यर्थः । तर्हि हीयमानेन सन्धिः कार्यः इति नीतिशास्त्रविरोधः स्यात्तत्राह एष मे सहजो दोष इति । यदि दोषत्वमनुमतं तर्हि स त्याज्य एवेत्याशङ्कयाह स्वभाव इति । न हि तिक्तो निम्बो मधुरायत इति भावः ॥ ११॥ अथ सेतुबन्धेन विस्मयसे चेत् तदपि काकतालीयम् अतो मा भूत्ते भयमित्याइ-यदीति । तावत् समुद्रे स्वल्पसमुद्रे आनीय च वनादित्यादिलोकद्वयस्य प्रातीतिकार्थः स्पष्टः । रामहस्ताद्वधेच्छयैव वनात्सीतामानीय राघवस्य भयात् किमर्थ प्रतिदास्यामीत्यर्थः ॥८ ॥ एवं चेदत्र राम आयास्यति किम् ? तबाह-वृतमिति । कैश्चिदहोभिः मया हेतुना निहतम् आगतमित्यर्थः । “हन हिंसागत्योः " इति धातोरेवमर्थः । वानर
कोटीभिर्वृतं ससुग्रीवं सलक्ष्मणं राघवं पश्य, द्रक्ष्यसीत्यर्थः ॥ ९॥ एवं चेत्तहि कथं न बिभेषीत्यत्राह-द्वन्द्व इति । यस्य मम ॥ १०॥ मानहानिकर त्वद्वाक्यं न Kग्राह्यमित्याशयेनाह-द्विधेति । एवमनया रीत्या द्विधा भज्येयमपि शत्रुणा भज्यमानोऽपि कस्यचिदपि न नमेयं तु न नमेयमेव । तदेतत्रयविरुद्धम्, तबाह एप
For Private And Personal Use Only