________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
.११७॥
स.
अन्तर्भावितण्यर्थोऽयम् । रावणं रावणाकारम् । समवेक्ष्य इङ्गितादिदर्शनपुरःसरं दृष्ट्वा रक्षोधिपतेर्मनः परीक्ष्य अनिवयं ज्ञाता तूष्णीं बभूव । उपदेशाटी .यु,को द्विररामेत्यर्थः॥ ३७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चत्रिंशः सर्गः ॥३५॥ अथ लङ्कागुप्तिकरणं पत्रिशे-तत्त्विति । हितमुक्तं हितं यया भवति तथा उक्तम् । न मर्षयति नामर्षयत् ॥ १॥ परिवृत्ताक्षः घूर्णिताक्षः ॥२॥ पर
तत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः । न मर्षयति दुष्टात्मा कालस्य वशमागतः ॥१॥स बद्ध्वा भ्रुकुटिं वक्रे क्रोधस्य वशमागतः। अमर्षात् परिवृत्ताक्षो माल्यवन्तमथाब्रवीत् ॥२॥ हितबुद्धया यदहितं वचः परुष मुच्यते । परपक्षं प्रविश्यैव नैतच्छ्रोत्रं गतं मम ॥३॥ मानुष कृपणं राममेकं शाखामृगाश्रयम् । समर्थ मन्यसे केन त्यक्तं पित्रा वनालयम् ॥ ४॥ रक्षसामीश्वरं मां च देवतानां भयङ्करम् । हीनं मां मन्यसे केन ह्यहीनं सर्व विक्रमैः॥५॥ वीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः । त्वयाऽह परुषाण्युक्तः परप्रोत्साहनेन वा॥६॥ पक्षं प्रविश्यैव शत्रुषु स्नेहमनुमृत्यैव । हितबुद्ध्या हितमित्ययं ज्ञास्यतीति बुद्धया । अहितं परुषं च यदच उक्तम् एतत् मम श्रोत्रं न गतमित्यन्वयः ॥३॥ भवतः परपक्षानुसारश्चन युक्त इत्याह-मानुपमिति । मानुषं जात्या हीनबलम् । कृपणं प्रकृत्या हीनम् । एकम् असहायम् । शाखामृगा श्रयं क्षुद्रसहायम् । पित्रा त्यक्तं निर्धनम् । वनालयं राज्यहीनम् । रामं केन कथंप्रकारेण समर्थ प्रवलं मन्यसे ॥४॥ स्वस्मिन् त परीत्यमाह-रक्षसा मिति । हीनं दुर्बलम् ॥५॥ एवं परप्राबल्यस्वदौर्बल्ययोरभावेऽपि परुषोक्तौ हेतुमाशङ्कते-पीरद्वेषेणेति । वीरदेषेण सजातीयवरिषेण । रिपोः पक्ष । पौरुषो माल्यवान् । तत्र सभायाम् । निगद्येति पाठेऽपि श्रावयित्वा रावणं समवेक्ष्य रक्षोधिपतेर्मनः परीक्ष्य अनिवर्तनं ज्ञात्वा ती बभूव, किमपि नोवाचेत्यर्थः ॥३०॥ इति श्रीमहेश्वरतीर्थविरचितार्या श्रीरामायणतत्त्वदीपिकारुयायां युद्धकाण्डव्याख्यायो पक्षत्रिंशः सर्गः ॥३५॥१॥२॥ हितबुद्धचेति । परपक्ष प्रविश्य अनुसृत्य ॥३॥ मानुषमित्यादिलोकद्वयस्य प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु-बनालयं वनं जलमुदधिः आलयः शयनस्थावं यस्य तम, बटपत्रशायिनं नारायणमित्यर्थः । अत एव पित्रा त्यक्तम्, जन्मादिरहितमित्यर्थः । ईश्वरस्य जन्माद्यभावादेव पित्राद्यभावः । अत एव एकम् अद्वितीयम् । अत एव शाखामृगाश्रयं शाखाभिः ॥११ वेदशाखाभिमुंग्यत इति शाखामृगः वेदवेद्यः सर्वेश्वरः स चासावाश्रयश्चेति तम् । तथापि केनापि हेतुना मानुष मनुष्यरूपेणावतीर्णम् अत एव कृपणं कृपालु राम समर्थ मन्यसे किल, तद्युक्तमेव । केन हेतुना रक्षसामीश्वरं सर्वपराक्रमहीनं मामहीनं मन्पस इत्यर्थः ॥४-०॥
For Private And Personal Use Only