________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
बा.रा.भू. इराः प्रतीत्युपसर्गमात्रम्, भयंकरा इत्यर्थः ॥ २६ ॥ ध्वस्ताः धूसराः । अत एव विवर्णाः विगतवर्णाः ॥ २७ ॥ व्याला दुष्टाः । वाश्यन्ति वाशितं कुर्वन्ति, कुत्सितरुतं कुर्वन्तीत्यर्थः । समवायान् सङ्गान् ॥ २८ ॥ कालिकाः नीलवर्णाः स्त्रियः पूतनाप्रमुखा इति यावत् । शक्तय इत्येके । पाण्डरे दन्तैरुपलक्षिताः सत्यः । प्रतिभाष्य प्रतिकूलमाभाष्य । गृहाणि गृहस्थित वस्तूनि मुष्णन्त्यः हसन्ति । एवं दृश्यन्त इत्यर्थः ॥ २९ ॥ रामानु०-कालिकाः |
॥२२६॥
रुदतां वाहनानां च प्रपतन्त्यस्त्रबिन्दवः । ध्वजा ध्वस्ता विवर्णाश्च न प्रभान्ति यथा पुरा ||२७|| व्याला गोमायवो गृध्रा वाश्यन्ति च सुभैरवम् । प्रविश्य लङ्कामनिशं समवायांश्च कुर्वते ॥ २८ ॥ कालिकाः पाण्डरैर्दन्तैः प्रहसन्त्य ग्रतः स्थिताः । स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च ॥ २९ ॥ गृहाणां बलिकर्माणि श्वानः पर्युपभुञ्जते । खरा गोषु प्रजायन्ते मूषिका नकुलैः सह ॥ ३० ॥ मार्जारा द्वीपिभिः सार्धं सूकराः शुनकैः सह । किन्नरा राक्षसै श्वापि समीयुर्मानुषैः सह ॥ ३१ ॥
शक्तयः । स्त्रियः स्त्रीः । प्रतिभाष्य प्रतिकूलमाभाष्य । स्वमेषु गृहाणि मुष्णन्ति अग्रतः स्थिता हसन्ति चेति सम्बन्धः ॥ २९ ॥ बलिकर्माणि बलिकर्मसाधनानि हवींषि । नकुलैः सह, वर्तन्त इति शेषः ॥ ३० ॥ समीयुः संयन्ति । द्वीपिभिः व्याघ्रैः । मानुषैः, राक्षसा इति शेषः । मानुषाश्वात्रोत्पातजनिता एव ॥ ३१ ॥ रामानु०-बलि | कर्माणि बलिद्रव्याणि । किन्नरा राक्षसैश्वापि समीयुर्मानुषैः सहेत्यर्थं केषुचित्कोशेषु दृश्यते । तस्मिन्विरोधोस्ति लङ्कायां मानुषाभावात् ।। ३१ ।।
तेषामेव प्रत्येक बहुविधत्वं दर्शयति-व्याला इति । समवायान समूहान् ॥ २८ ॥ कालिकाः पूतनाप्रमुखशक्तयः । पाण्डरैः दन्तैः उपलक्षिताः स्त्रियः स्त्रीः प्रतिभाष्य प्रतिकूलमाभाष्य प्रत्याख्याय । स्वमेषु गृहाणि गृहवर्तीनि द्रव्याणि मुष्णन्त्योऽग्रतः स्थिता हसन्तीति सम्बन्धः ॥ २९ ॥ बलिकर्माणि बलिकर्म
० कालिकाः ग्रामस्था: महाकाली भद्रकालीत्यादयः । प्रतिभाष्य श्रोतृभवदाविभाषा कृत्वा पाण्डरैर्दन्तेः अग्रतः स्थिताः सत्यः प्रहसन्ति । दन्तानां पाण्डरवोक्या उक्त्या च विरुद्धभाषणमोषणहसनादीनां निश्चितं मरणम् । किञ्चियवधानेन भविष्यतीति सूचयति ॥ २९ ॥ श्वानः सारमेयाः । पर्युपसेवत इति पाठः । उपसेवते उपसेवन्ते न वायसाः । " पुनः श्वानो भविष्यति "" श्वानस्करमार्जार" इत्यादि प्रयोगादकारान्तो वा श्वानशब्दः । श्वा नः अस्माकमिदमिति पर्युपसेवते । नः बलिकर्माणि वा उपसेवते इति वा ॥ ३० ॥
For Private And Personal Use Only
टी. पु. का.
स० ३५
।। ११६॥