SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir उरताः। मुख्यैः श्रेष्ठः । तेस्तैः अग्निष्टोममारभ्य विश्वसृजामयनपर्यन्तः । अमीनुद्दिश्य जुह्वति होमं कुर्वन्ति । देवतोदेशेन द्रव्यत्यागोयागः । त्यक्तस्यानो प्रक्षेपो होम इत्यनयोर्भेदः । अभिभूय अगणयित्वा । ब्रह्मघोषान् उदेस्यन् उच्चारयन्ति स्म । वेदश्चिोधेरपीयत इत्यस्य विवरणमिदम्॥१९॥२०॥तपः प्रभृतिकर्मणः फलमाह-दिश इत्यादिना । सर्वा दिशः प्रति विद्रुताः, राक्षसा इति शेषः । उष्णगे ग्रीष्मे । स्तनयित्नुरिख मेघ इव । जातावेकवचनम् M॥ २१॥ २२॥ बलिनोऽपि देवाः ब्रह्मदत्तवरमहिनापि न प्रहर्तुं शक्नुयुरिति चेत्तत्राह-देवदानवेत्यादिना । देवदानवयक्षेभ्य एवावध्यत्ववरो गृहीतः। दिशोऽपि विद्वताः सर्वाः स्तनयित्नुरिवोष्णगे। ऋषीणामग्रिकल्पानामग्रिहोत्रसमुत्थितः॥२१॥ आदत्ते रक्षसां तेजो धूमो व्याप्य दिशो दश। तेषु तेषु च देशेषु पुण्येष्वेव दृढवतैः। चर्यमाणं तपस्तीवं सन्तापयति राक्षसान ॥२२॥ देवदानवयक्षेभ्यो गृहीतश्च वरस्त्वया ॥२३॥ मानुषा वानरा ऋक्षा गोलायला महाबलाः । बलवन्त इहागम्य गर्जन्ति दृढविक्रमाः ॥ २४ ॥ उत्पातान् विविधान् दृष्ट्वा घोरान बहुविधांस्तथा । विनाशमनुपश्यामि सर्वेषां रक्षसामहम् ॥२५॥ खराभिस्तनिता घोरा मेघाः प्रतिभयङ्कराः। शोणितेनाभिवर्षन्ति लङ्कामुष्णेन सर्वतः॥२६॥ न तु मानुपादिभ्य इति भावः ॥ २३ ॥ तर्हि किमायातमित्यत्राह-मानुषा इति । द्वयोरपि बहुवचनं पूजायाम् । महाबलाः महासैन्याः । इह शालकायाम् ॥ २४॥ न केवलं परागमनेन किंत्वशुभानिमित्तदर्शनेनापि भयमुत्प्रेक्ष्यमित्याह-उत्पातानिति । उत्पातान् विविधान् दिव्यान्तरिक्षभौम भेदभिन्नान् । बहुविधान् भोमादिषु प्रत्येकं विविधान् । अनुपश्यामि तयामि ॥२५ ॥खराभिस्तनिताः परुषगर्जिताः। घोराः विरूपाः । प्रतिभय सर्वा दिशः विद्वताः, राक्षसा इति शेषः । विद्रवणे दृष्टान्तः स्तनयित्वरिति । मेघ इव, जातावेकवचनम् । उष्णगे उष्णकाले ॥ २१॥ २३ ॥ तपोयागादिक कामं कुर्वन्तु, ब्रह्मदतं सुरासुरैरवध्यत्वमस्ति खल्वित्याशय, सत्यम्, रामसुग्रीवादयो न सुरासुरा इत्यभिप्रेत्याह-देवदानवेत्याविसाधैन । देवदानवेभ्य Vावावध्यत्वं गृहीतम्, न मानुपादिभ्य इत्यभिप्रायः ॥ २३ ॥ २४ ॥ न केवलं परवलानुगमनेन भयम् किन्त्वशुभनिमित्तदर्शनेनापीत्याह-उत्पातानिति । विविधान दिव्यन्तरिक्षभौमभेदभिन्नान बहुविधान् ॥ २५--२७ ॥ स०-उष्णगे ग्रीष्मर्तृगते सूर्षे स्तनविनुर्बलाहक हव विप्रहुताः विप्रगुतानि रक्षांसि । पलायन एव पुरुषकार इति पुशक्तिप्रयुक्तः पुंलिमनिर्देशः रक्षांसीति प्रकृतत्वात् । राक्षसा इति शेषो वा ॥ २१ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy