________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
यस्मात् । सुराणाम् असुराणां च पक्षी अवलम्बभूतौ । द्वावेव धर्माधर्मौ असृजत् । अतः धर्माधर्मौ तदाश्रयौ सुरासुराश्रयो । असुरशब्देनात्रासुरप्रकृ तयो राक्षसादयश्च विवक्षिताः ॥ १२ ॥ अनयोः कतरः केषां पक्ष इत्यत्राह धर्मों हीति । महात्मनामिति हेतुगर्भविशेषणम् । महास्वभावानामित्यर्थः । | समीचीनप्रकृतीनामिति यावत् । अमहात्मनामित्यसुरादिविशेषणं चार्थसिद्धम् । तथा च धर्मस्य देवपक्षत्वाद्रामस्य तदाश्रयत्वाद्देवादयो रामपक्षपातिन
धर्मो हि श्रूयते पक्षी मराणां महात्मनाम् । अधर्मो रक्षसां पक्षो ह्यसुराणां च रावण ॥ १३ ॥ धर्मो वै ग्रसतेऽधर्मे ततः कृतमभृद्युगम्। अधर्मो ग्रसते धर्मं ततस्तिष्यः प्रवर्तते ॥ १४ ॥
तत्त्वया चरता लोकान् धर्मो विनिहतो महान् । अधर्मः प्रगृहीतश्च तेनास्मद्बलिनः परे ॥ १५ ॥
Acharya Shri Kalassagarsuri Gyanmandir
इति भावः ॥ १३ ॥ एवं देवादिपक्षपाताद्रामस्य बलीयस्त्वमुपपाद्य धर्मस्य प्राबल्यादपि तदाह-धर्म इति । अत्र यदेति शेष धर्मः अधर्म यदा ग्रसते अभिभवति तदा कृतं युगम् अभूत् भवति पुरुषेषु प्रवर्तते । आर्पः कालव्यत्ययः । अधर्मो यदा धर्मे ग्रसते तदा तिष्यः कलिः प्रवर्तते । "तिष्यः कलो च पुष्ये च" इत्यमरः ||१४|| रामानु० - ततस्तिष्यः प्रवर्तत इति पाठः । अत्र यदेत्यध्याहार्यम् । यदा कृतं युगमभूत् । "तपः शौचं दया सत्यम्” इति श्रीभागवतोक्तप्रकारेण धर्मपाद चतुष्टयविशिष्टं कृतयुगं भवति । धर्मवृद्धिर्भवतीत्यर्थः । तदा धर्मः अथ प्रसते । अनेन धर्मपक्षपातिनां वृद्धिरधर्मपक्षपातिनां हानिश्व सूचिता । यदा विष्यः प्रवर्तते । "अधर्मं गौः" इत्यादिना श्रीभागवतोक्तसङ्गमदानृताद्यधर्मपादचतुष्टयविशिष्टं कलियुगं प्रवर्तते। अधर्मवृद्धिर्भवतीत्यर्थः । ततः तदा । अधर्मः अभिवृद्धाधर्मः धर्म ग्रसते । अनेनाधर्मपक्षपातिनां वृद्धिः धर्मपक्षपातिनां हानिश्व सूचिता ॥ १४॥ ततः किमित्यपेक्षायां त्वय्यधर्मेण कलेः प्रवेशात्कृतापेक्षया कलेर्दुर्बलत्वादस्मदपेक्षया रामो बलवानित्याह-- तदिति । लोकान् चरता, दिग्विजयार्थमिति शेषः । विनिहतः, परदारपरिग्रहार्थमिति शेषः । अस्मदिति पञ्चमीबहुवचनम् । परे शत्रवो रामादयो धार्मिकाः । यद्वा कृतं युगमिति यितुं धर्माधर्मयोस्तुरासुरपक्षत्वं दर्शयति-असृजदित्यादिना । भगवान् पितामहः धर्माधम सुराणामसुराणां च द्वौ पक्षावसृजत अतो धर्माधर्मौ तदाश्रयों तेषां सुराणामसुराणां च आश्रयावित्यर्थः ॥ १२ ॥ १३ ॥ धर्माधर्मयोः को वा श्रेयानित्याकांक्षायामाह धर्म इति । अत्र यदाशब्दाध्याहर्तव्यः । धर्मो यदा अधर्म प्रसते नाशयति ततस्तदा कृतयुगमभूत, अनेन धर्मपक्षपातिनां वृद्धिः अधर्मपक्षपातिनां हानि सूचिता । यदा अधमों धर्म प्रसते तदा तिष्यः कलियुगं प्रवर्तते, अनेन अधर्मपक्षपातिनां वृद्धिः धर्मपक्षपातिनां दानिश्च सूचिता । अतो धर्म एव श्रेयानिति भावः ॥ १४ ॥ अधर्मवृद्धया राक्षसानां प्राबल्यम्, धर्म वृद्धया सुराणां भावयं च क्रमेण प्रदर्शयति तत्त्वयेत्यादिश्लोकद्वयेन । लोकान् चरता दिग्विजयार्थे लोकान सञ्चरता त्वया धर्मो विनिहतः धर्मवृद्धिहेतुभूतयज्ञ
For Private And Personal Use Only