________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मुवाचेत्यर्थः॥३॥ गर्दाप्रकारमाह श्लोकदयेन-तरणमिति। तूष्णीकान् तूष्णीशीलान् । “शीले को मलोपश्च" इति कात्ययो मलोपश्च। “तूष्णींशीलस्तु तूष्णीका" इत्यमरः। निरुत्साहानित्यर्थः॥४॥५|| पितामहस्य पुत्रः पैतामहः। पितृव्य इत्यर्थः । कैकसी सुमालिपुत्रीत्युत्तररामायणेऽभिधानान्माल्यवत स्तदातृत्वाच्च पितामहशब्दस्य नियतसापेक्षत्वान्नासामर्थ्यदोषः । पितेत्यर्थ इत्येके । वृद्धो मातामहोऽब्रवीदिति क्वचित्पाठः ॥६॥ नीतिमार्गपर्यालोच
तरणं सागरस्यापि विक्रम बलसञ्चयम् । यदुक्तवन्तो रामस्य भवन्तस्तन्मया श्रुतम् ॥ ४ ॥ भवतश्चाप्यहं वेद्मि युद्धे सत्यपराक्रमान् । तूष्णीकानीक्षतोऽन्योन्यं विदित्वा रामविक्रमम् ॥५॥ ततस्तु सुमहाप्राज्ञो माल्यवान् नाम राक्षसः। रावणस्य वचः श्रुत्वा मातुः पैतामहोऽब्रवीत् ॥ ६॥
विद्यास्वभिविनीतो यो राजा राजन्नयानुगः। स शास्ति चिरमैश्वर्यमरीश्च कुरुते वशे ॥७॥ लानायां बलवता रामेण सन्धिः करणीय इत्यभिप्रायेण प्रवमं नयस्य श्रेयोहेतुत्वं दर्शयति-विद्येति । विद्यासु आन्वीक्षिकीत्रयीवार्तादण्डनीत्याख्यासु
चतसृषु विद्यासु । अभिविनीतः अभितः शिक्षितः । अत एव नयानुगः नीतिशास्त्रानुसारी यो राजा सः चिरम् ऐश्वर्यम् ईश्वरत्वं शास्ति अधितिष्ठति ।। तिमिममर्थ विशदमुक्तवान् कामन्दक:-"आन्वीक्षिकी त्रयीं वार्ती दण्डनीतिं च पार्थिवः । तद्विद्भिस्तत्कियोपेतेश्चिन्तयेद्विनयान्वितः॥ आन्वीक्षिक्यात्म विज्ञानं धर्माधर्मों त्रयीस्थितौ । अर्थानौँ तु वार्तायां दण्डनीत्यां नयानयो । विद्याश्चतस्र एवेता योगक्षेमाय देहिनाम् । विद्याविनीतो नृपतिर्न कृच्छे । गर्दाप्रकारमेवाह-तरणमित्यादिश्लोकद्वयेन । तूष्णीकान् निरुत्साहान् । वेद्मीत्युवाचेति पूर्वेण सम्बन्धः ॥४॥५॥ मातुः पतामहः पितामहस्य पुत्रः पैतामहः, मातुः पितेति यावत् । रावणस्य वचः श्रुत्वा इति मातामहोऽब्रवीत् । इति कचित्पाठः । तत्र सन्ध्यभाव आर्षः ॥६॥ नीतिमार्गपर्यालोचनायर्या बलवता रामेण सन्धिः करणीय इत्यभिप्रायेण प्रथमं नयस्य श्रेयोहेतुत्वं दर्शयति-विद्यास्विति । विद्यासु आन्वीक्षिकीत्रयीवार्तादण्डनीत्याख्यासु । नयानुगः नीतिमार्गानुसारी ।
स-अस्प रामस्य । सागरस्य तरणविक्रमं बलेन सहितं पौरुषं चेति यदुक्तवन्तः तच्छुतमिति गहवन् । गर्हण चोक्तस्याप्यनुतपापीकरणम् । सागरस्यास्य इति पाठः ॥ ॥ अद्य आरामविक्रम राम विषये वने मया कृतं भार्याहरणविक्रमम् । विदित्वा झारखापि तूष्णीकान् तूष्णी स्थितान् निरुत्साहानिति यावत । अन्योन्यम् ईक्षतः ईक्षमागान् बेगि, इदं किमिति शेषः । रामविक्रम रामस्य विक्रम लहाभूमिकापादविक्षेपम, तन्मात्रमिति यावत । युद्धमुखमनवलोक्यैवंभावो म काप्यवलोकित इति भावः ॥ ५ ॥
For Private And Personal Use Only