SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥११३॥ www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir तव नेत्रसौभाग्यलक्षणादित्यभिप्रायेणाह - असितेक्षण इति ॥ २६ ॥ सरमोक्तस्योपश्रुतिनिमित्तं दर्शयन्नेव कथाशेषं दर्शयति - एतस्मिन्निति । अत्र भेर्यादिशब्दो भेर्यादिशब्दपरः । वानरसैन्यानामपि भेर्यादिकमस्तीति किष्किन्धाकाण्डे दर्शितम् ॥ २७ ॥ श्रुत्वेति । श्रेयो न पश्यन्ति नृपस्य दोष इति । रावणस्य दोषे निमित्तभूते जीवनभूतमात्मनः श्रेयो न पश्यन्ति ॥ २८ ॥ इति श्रीगो० श्रीरामा० रत्न• युद्धकाण्डव्याख्याने चतुस्त्रिंशः सर्गः ॥ ३४ ॥ ॥ एतस्मिन्नन्तरे शब्दो भेरीशङ्खसमाकुलः । श्रुतो वानरसैन्यानां कम्पयन् धरणीतलम् ॥ २७ ॥ श्रुत्वा तु तद्वानर सैन्यशब्दं लङ्कागता राक्षसराजभृत्याः । नष्टौजसो दैन्यपरीतचेष्टाः श्रेयो न पश्यन्ति नृपस्य दोषे ॥ २८ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४ ॥ तेन शङ्खविमिश्रेण भेरीशब्देन राघवः । उपयाति महाबाहू रामः परपुरञ्जयः ॥ १ ॥ तं निनादं निशम्याथ रावणो राक्षसेश्वरः । मुहूर्त ध्यानमास्थाय सचिवानभ्युदैक्षत ॥ २ ॥ अथ तान सचिवांस्तत्र सर्वानाभाष्य रावणः । सभां सन्नादयन् सर्वामित्युवाच महाबलः । जगत्सन्तापनः क्रूरो गर्हयन राक्षसेश्वरः ॥ ३ ॥ अथ माल्यवदुपदेशः पञ्चत्रिंशे तेनेति । शङ्खविमिश्रेण शङ्खशब्दविमिश्रेण । उपयाति उपाययौ ॥ १॥ ध्यानमास्थाय किं मयेदानीं कर्तव्यमिति ध्यानं कृत्वेत्यर्थः ॥ २ ॥ अयेत्यादि । आभाप्य सम्बोध्य । सभाम् आस्थानमण्डपम् । उदीक्षणाशयमुद्घाटयति गर्हयन्निति । गईयनुवाच गर्हात्मिकां वाच श्रेयो न पश्यन्ति । नृपस्य रावणस्य दोषैः निमित्तभूतैः जीवनभूतमात्मनः श्रेयो नास्तीति मेनिर इत्यर्थः ॥ २८ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामा यणतत्त्वदीपिकापायां युद्धकाण्डव्याख्यायां चतुखिंशः सर्गः ॥ ३४ ॥ तेनेति । उपयाति उपयासः ॥ १ ॥ २ ॥ अथ तानित्यादिसार्धश्लोक एकं वाक्यम् । आमाध्य सम्बोध्य गर्हयनुवाच सचिवगर्हात्मिकां वाचमुवाचेत्यर्थः ३॥ स० [मेरीशब्देन नादिना इति पाठः । नादिना प्रतिध्वनिमता । नादिना न वियन्ते आदिनो राक्षसा येन तादृशेन " आदिनो राक्षसाः प्रोक्ताः" इति भागवतदशमस्कन्धतात्पर्यात् । परपुरं बर नगरम् | महाबाहु राम उपपाति । जयश्च तमुपयाति । पुरमिति शेषो वा । एतत्पक्षे परपुरञ्जयेति समस्तम् ॥ १ ॥ For Private And Personal Use Only टी.पु.की. स० ३५ ॥११३॥
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy