________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
तिष्ठतु रामः तद्भुत्यो हनुमानेव सर्वान् राक्षसान जेतुं समर्थ इत्याशयेन तत्पराक्रमं वर्णयति-लयनमिति ।दर्शनं सीतादर्शनम् । मानुषःमनुष्यसम्बन्धी पुरुषः। कः कुर्यात् । तस्येदम्" इत्यण । स्वदूतमुखेनानेककार्यकारी रामो देव एवेति भावः ॥२२॥ अविहेन तन्नामा । मन्त्रिवृद्धरिति पूजायां बहु वचनम् । बह्विति क्रियाविशेषणम् ॥२३॥ हि यस्मात्सामात्यस्य एष निश्चयो वर्तते इति तस्मात् युद्धे अमृतः सन् त्वां मोक्तुं नोत्सहतीति । इतिहेतो।।
लङ्घनं च समुद्रस्य दर्शनं च हनूमतः । वधं च रक्षसां युद्धे कः कुर्यान्मानुषो भुवि ॥ २२॥ एवं स मन्त्रिवृद्धैश्चा 9 विद्धन बहु भाषितः। न त्वामुत्सहते मोक्तुमर्थमर्थपरो यथा ॥ २३ ॥ नोत्सहत्यमृतो मोक्तुं युद्धे त्वामिति
मैथिलि । सामात्यस्य नृशंसस्य निश्चयो ह्येष वर्तत ॥ २४ ॥ तदेषा निश्चिता बुद्धिर्मृत्युलोभादुपस्थिता। भयान शक्तस्त्वां मोक्तुमनिरस्तस्तु संयुगे । राक्षसानां च सर्वेषामात्मनश्च वधेन हि॥२५॥ निहत्य रावणं सङ्खये सर्वथा निशितैः शरैः। प्रतिनेष्यति रामस्त्वामयोध्यामसितेक्षणे ॥२६॥ इति निश्चय इत्यन्वय इत्येके । इति मन्य इत्यपरे । इह मैथिलीति केचित्पाठः ॥२४॥ रामानु०-नोत्सद्दतीति । इति मैथिलीत्यत्र इतिशब्दस्य निश्चय इत्यनेन सम्बन्धः ॥ २४॥ एतादृशाध्यवसायस्य किं निमित्तमित्यपेक्षायां मरणलोभ एवेत्याह-तदेपेत्यादिसार्द्धश्लोकः । तत् तस्येत्यर्थः । राक्षसानामात्मनश्च विधेन अनिरस्तः अनिराकृतः केवलभयात्त्वां मोक्तुं न शक्तः, नोत्सहत इत्यर्थः ॥२५॥ कथं तर्हि मे निर्गमनमित्यत आह-निहत्येति । एतत्सवे
प्रमाणान्तरानपेक्षम् । निदर्शनं करिष्यमाणस्य रघुनाथपराक्रमस्य दृष्टान्त इत्यर्थः ॥ २१॥ तिष्ठतु रघुनाथः, तदनुचरो हनुमानेव सर्वान राक्षसान जेतुं समर्थ इत्याशयेन तत्पराक्रमं वर्णयति-लडनमिति । दर्शनम, सीताया इति शेषः । मानुषः पुरुषः ॥ २२ ॥ २३॥ नोत्सदतीति । हि यस्मात् तस्य सामान्यस्य एष। निश्चयः न त्यक्ष्यामीति निश्चयो वर्तते तस्मायुद्धे अमृतस्सन त्वां त्यक्तुं नोत्सहतीति मन्य इत्यर्थः ॥ २४ ॥ राक्षसानाम् आत्मनश्च वधेनानिरस्तः अनिराकृतः भयावा मोतुं न शक्तः नोत्सहत इत्यर्थः ॥ २५ ॥ तर्हि मम निर्गमो न सम्भवेदित्यत आह-निहत्येति ॥ २६ ॥ २७॥
स०-नोत्सहति । चुरादिस्यमाधीयः परस्मैपदे वर्तते " स एवायं नागः सहति कलमेन्यः पारमवम् " इत्यादिप्रयोगात् । सामात्यस्य अविन्ध्यादिव्यतिरिक्तमन्त्रिसहितस्य ॥ २४ ॥ मृत्युलोभाव मयुदेव्या एव विद्यमानादाति ॥ २५॥
For Private And Personal Use Only